________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यथा हि दक्षिणावर्त्तशङ्खः' दक्षिणा: अपसव्यगामिन: आवर्ता यस्य सः शङ्खः कम्बुः । 'कृष्णश्च चित्रकः' कृष्णा चित्रवल्ली । 'अगण्यैः' अपरिमितैः । 'पुण्यैः' सुकृतैः । प्रत्यक्षः साक्षात् स्यात् तथा तस्य सङ्गमस्य मुनिः प्रत्यक्षः अभवत् ॥ ८५ ॥
तस्माज्जगत्त्रयीमित्रादसावादर्शनिर्मलः । तेजो बोधमयं प्रापदन्तरङ्गतमोपहम् ॥ ८६ ॥
'तस्मात्' मुनेः । 'जगत्त्रयीमित्रात्'-विश्वत्रयसुहृदः । पक्षे-सूर्यात् । 'आदर्शनिर्मलः' दर्पणोज्ज्वलः । 'असौ' सङ्गमकः । 'अन्तरङ्गतमोपहं'-अभ्यन्तरान्धकारहारि । बोधमयं ज्ञानमयम् । पक्षे-जागृतिमयम् । 'तेजः' प्रकाशम् । 'प्रापत्'प्राप्नोति स्म । प्रतिबिम्ब्यते हि आदर्श सूर्यप्रकाश: ॥ ८६ ॥
जातजातिस्मृतिरिव प्राप्तजन्माथ निर्जर: । किमेतदिति सम्भ्रान्तस्ततश्चेतस्यचिन्तयत् ॥ ८७ ॥
'अथ जातजातिस्मृतिः इव' उत्पन्नजातिस्मरण: इव । 'प्राप्तजन्मा'-लब्धजनुः । निर्जर:-देवः इव । 'एतत् किम् ?' इति सम्भ्रान्तः-सम्भ्रमं प्राप्तः सङ्गमः । चेतसि-मनसि । अचिन्तयत्-चिन्तयति स्म ॥ ८७ ॥
सङ्गमस्य आनन्दः । अहो भाग्यमहो भाग्यमहो मेऽद्य महोत्सवः । अरिरे धर्मसामग्री कटरे कर्मलाघवम् ॥ ८ ॥
अहो मम भाग्यम् । अहो मम भाग्यम् । अहो मे अद्य महोत्सवः । 'अरिरे कटरे' इति आश्चर्यद्योतके अव्यये । धर्म सामग्री मम प्राप्ता । कर्मलाघवं जातम् ॥ ८८ ॥
82828282828282828282828282828282888
॥२९॥