________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अनभ्रविभ्रमा वृष्टिरचन्द्रा किल चन्द्रिका । अप्रदीपः प्रकाशश्च ममाकस्माद् विजृम्भते ॥ ८९ ॥
'अनभ्रविभ्रमा'-अजलदविलसिता । वृष्टिः'-वर्षणम् । 'अचन्द्रा'-चन्द्ररहिता । 'किलः' निश्चये । चन्द्रिका' ज्योत्स्ना । 'अप्रदीपः' प्रदीपरहितश्च प्रकाश: तेजः । 'मम अकस्मात्' न कस्मात् अकस्मात् । विजृम्भते-प्रकटीभवति ।। ८९ ॥
ऐरावणोऽयं भूपीठे, गङ्गापूरश्च जाङ्गले । मरौ जात: पारिजातः, साधुामे यदीदृशे ॥ ९० ॥
'अयं' साधुः । भूपीठे-पृथ्वीतले । 'ऐरावणो' तन्नामा इन्द्र-हस्ती । जाङ्गले-निर्जलदेशे । चः समुच्चये । गङ्गापूरः जाह्नवीप्रवाहः । मरौ देशे च पारिजातः कल्पवृक्षः जातः । यद् ईदृशे ग्रामे लघुग्रामे । साधुः-मुनिः । आगतः इति शेषः ॥ ९० ॥
राजा रोरगृहं प्रापदमावस्यामयं शशी । हेलिः पातालमूलं वा, यत्तत्रापि ममालयम् ॥ ९१ ॥
'राजा'-नपः । 'रोरगह'-द्रमकगेहम । 'प्रापद'-प्राप्तः । 'अमावस्यां'-अमावस्यायाम् । 'अयं' साधुः । 'शशी'चन्द्रः प्राप्त: । 'हेलि:'-सूर्यः । 'वा'-विकल्पे । 'पातालमूलं'-अधोलोकं प्रापद् । 'यत्'-यस्मात् । तत्रापि-ग्रामे । 'ममालयं'-मम गृहम् । साधुः आगतः ॥ ९१ ॥
सामान्यान्नस्य सन्देहे, परमान्नं क्व मे गृहे । ऊषरे स्यान्न तृण्यापि, क्व महाशालिपालयः ॥ १२ ॥
'सामान्यान्नस्य अपि' साधारणभोजनस्यापि । 'सन्देहे' संशये । 'मे'-मम । 'गृहे' गेहे । 'परमान्नं' पायसं क्व? | 'ऊषरे प्रदेशे'-ऊषरभूमौ । 'तृण्या'-तृणसमूहोऽपि । न स्यात् न प्ररोहेत् तर्हि क्व 'महाशालिपालयः'-महाशालिस्तम्बानां पालि: पक्तिः ? ॥ ९२ ॥
828282828282828282828282828282828482
॥३०॥