________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
त्रिवेणी-सङ्गमः सोऽयं, जज्ञे गगनमण्डले । शिलापुत्रस्य सन्तुष्टा गौरीब्राह्मीमहाश्रियः ॥ ९३ ॥
'सोऽयं' मम भावस्य परमान्नस्य मुनेरागमनस्य च सङ्गमः । 'गगनमण्डले' नभस्तले । 'त्रिवेणीसङ्गमः' त्रिनदीप्रवाहमेलनम् । पृथ्व्यां तु गंगा-यमुना-सरस्वतीनां त्रिवेणीसंगमः प्रसिद्धः अयं तु गगने त्रिवेणीसंगमः संजातः। 'शिलापुत्रस्य'-पेषणदृषदः तद्वत् तुच्छप्राणिनः । गौरीब्राह्मीमहाश्रियः पार्वती-सरस्वती-श्रियः संतुष्टाः अभवन् । क: शिलापुत्रः? "निर्भाग्यो दुर्भगः पङ्गः कुणिः कुण्ठमतिस्तथा । नीचः पापरतो यस्तु 'शिलापुत्रः स उच्यते ॥" केचिदेवमाहुः-कस्याश्चित् स्त्रिया: लोढको जातस्तयाऽसावरण्ये त्यक्तः, पुनौरी-सहितेन शङ्करेण दृष्टस्ततो गौर्या सहानीतस्ततो तस्य (लोढकस्य) दानेन विद्यालक्ष्म्यावपि तुष्टे एवं तिस्रोऽपि (गौरीब्राह्मीमहाश्रियः) तस्योपरि तुष्टाः ॥ ९३ ।।
कुम्भेऽनवद्यत्रैविद्यवादस्तदयमीक्षितः । यच्चित्तवित्तपात्राणां, सङ्गमः सङ्गमे मयि ॥ ९४ ॥
'तद्' तस्मात् । अयं 'कुम्भे'-चैतन्यशून्ये जडरूपे घटे 'अनवद्यत्रैविद्यवादः'-पवित्रं तर्कलक्षण-साहित्यरूपं 'त्रैविद्यं'-त्रिविद्याया इदं त्रैविद्यं तस्य वादः चर्चा । ईक्षितः-दृष्टः । 'यद्'-यस्मात् । 'मयि' सङ्गमे । चित्तवित्तपात्राणांमनोद्रव्य-सत्पात्राणाम् । सङ्गमः-समागमः । अभवदिति शेषः ॥ ९४ ।।
सद्यः समागतं वित्तं, सद्यः पात्रं च सङ्गतम् । सद्यः प्रमुदितं चित्तं, पुण्यं सद्योऽर्जयामि तत् ॥ १५ ॥
सद्य:-सपदि । वित्तं पायसरूपं समागतम् । सद्यः पात्रं मुनिरूपं सत्पात्रं सङ्गतं मिलितम् । सद्यः चित्तं मनः । प्रमुदितंप्रहृष्टम् । 'तत्' तस्मात् । 'सद्यः' सपदि । 'पुण्यं' सुकृतम् 'अर्जयामि' लभे । इति सङ्गमस्य एवम्भूत-सामग्र्याः दुर्लभत्वे विचारणा । यदुक्तम्-केसिंचि होइ वित्तं, चित्तं अन्नेसिमुभयमन्नेसि । चित्तं वित्तं पत्तं तिण्णि वि केसिंचि धन्नाणं ॥ ९५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१॥