________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सर्वरत्नप्रधानं श्रीरामेणान्नममन्यत । परमान्नं तु पात्रत्राकृतं चिन्तामणीयताम् ॥ ९६ ॥
'श्री रामेण'-लङ्कातः प्रत्यागतेन । 'अन्नं'-भोजनम् । 'सर्वरत्नप्रधानं'-सकलमणिमुख्यम् । अमन्यत-मतम् । "उत्पत्तिदुर्लभा यस्य, व्ययो यस्य दिने दिने । सर्वरत्नप्रधानस्य, धान्यस्य कुशलं गृहे ॥ ॥ इति श्री रामश्लोकोऽयम् । लङ्काविजयं कृत्वा अयोध्यां प्रत्यागतस्य रामस्य भरतं प्रति वचनम् । 'पात्रत्राकृतं'-पात्रेधीनं क्रियते दीयते इति पात्रत्राः "देये त्रा च ७/२/१३३।" इति त्राप्रत्ययः । 'परमान्नं' इदं पात्रदेयं पायसम् । 'चिन्तामणीयतां' चिन्तारत्नमिव भवतु ॥ ९६ ॥
एष एवामृताहारो यः सत्पात्रे नियोज्यते । रसो न हीयते यस्य कल्पकोटिशतैरपि ॥ ९७ ॥
'य:' आहारः । 'सत्पात्रे' मुनिपुङ्वरूपे सुपात्रे । यदुक्तम्-मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रति-सहस्रेषु, वरमेको महाव्रती ॥ १ ॥
महाव्रति-सहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं न भूतं न भविष्यति ॥ २ ॥
'नियोज्यते'-दीयते । 'एष एव अमृताहारो'-अमृततुल्यः आहारः । 'यस्य कल्पकोटिशतैरपि'-कोटिशतयुगान्तैरपि। रसो न हीयते-पुण्यानुबन्धरूप: रस: न क्षीयते ॥ ९७ ॥
अभ्युत्तस्थौ विमृश्येति स्थालमादाय सुस्थिरः । उदञ्चदुच्चरोमाञ्चकञ्चकः स व्यराजत ॥ ९८ ॥ उद्भूतसुकृताङ्करः कृतधर्मद्रुमावृतिः । दारिद्रयद्वेषियुद्धाय सन्नद्ध इव शुद्धधीः ॥ ९९ ॥ (युग्मम् ) 'इति विमृश्य'-विचिन्त्य । 'सुस्थिरः' निश्चल: । 'स्थालं'-भोजनपात्रम् । 'आदाय'-गृहीत्वा । 'अभ्युत्तस्थौ'
82828282828282828282828282828282888
॥३२॥