________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
अभ्युत्तिष्ठति स्म । 'उदञ्चदुच्चरोमाञ्चकञ्चकः' उदगच्छदुच्च-रोमाञ्चितदेहः । 'सः' सङ्गमः । 'व्यराजत'-राजते स्म ॥ ९८॥ पुनः कीदृशः स सङ्गम: ? 'उद्भूतसुकृताङ्करः'-उत्पन्नपुण्याङ्करः । 'कृतधर्मद्रुमावृतिः'-कृता धर्मद्रुमे आ सामस्त्येन वृतिर्येन सः । 'दारिद्रयद्वेषियुद्धाय'-दौर्गत्यशत्रु-सङ्ग्रामाय । 'सन्नद्धः इव'-कवचित इव । 'शुद्धधी:'विमलमतिः । सन्नद्धः सैनिकोऽपि रोमाञ्चितदेह:-उत्साहाङ्करित: सुस्थिरश्च भवति ॥ ९९ ।।
स तं विज्ञपयामास कलावानसि हे मुने ! । यत्तुल्या राज्ञि रङ्केऽपि रुचिः स्फुरति ते शुचिः ॥ १० ॥
'स' सङ्गमः । 'तं' मुनिम् । 'विज्ञपयामास'-विज्ञपयति स्म-हे मुने त्वं कलावान् अध्यात्मकलायुक्त: । चन्द्रपक्षेचन्द्रमा: । 'कलाशशैणच्छायाभृद्' इति हैम्याम् । असि वर्तसे । यतः ते तव । 'शुचिः'-पवित्रः । रुचि:-अभिलाषः । पक्षे-किरणः 'रोचिरतरुचिशोचिरंशुगः' इति हैम्याम् । 'राज्ञि'-नृपे । 'रङ्के'-दरिद्धे । 'तुल्या'-समाना (अस्ति) यदुक्तम्"निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । नहि संहरते ज्योत्सनां, चन्द्रश्चाण्डालवेश्मनि ॥ १०० ॥
अचिन्तितोपलम्भेन स्पर्शेन पदयोस्तव । त्वद्गुणै रक्तधातोर्मे कल्या कल्याणताञ्जनि ॥ १०१ ॥ ___ हे मुने । तव पदयोः 'अचिन्तितोपलम्भेन'-असङ्कल्पित-प्राप्तेन स्पर्शेन । सुवर्ण पक्षे स्पर्शमणिना । 'पारसमणि' इति भाषायाम् । त्वद्गुणैः रक्तधातोः-रक्ताः तन्मया रसादिसप्तधातवः यस्य तस्य मे । पक्षे-ताम्रधातोः । 'तानं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरमिति' हैम्याम् । 'कल्या'-पट्वी । 'कल्याणता'-भद्रता । पक्षे-सुवर्णता । 'कल्याणं कनकमिति' हैम्याम् । 'अजनि'-जाता । यथा स्पर्शमणिना रक्तधातोः सुवर्णता भवति तद्वत् रक्तधातोमें कल्याणता जातेत्यर्थः ।। १०१ ।।
मैत्रीविलास-प्रासाद ! प्रसादं तत्प्रभो कुरु । करुणातरुणीपुण्यतरतारुण्य तारय ॥ १०२ ॥
ARRARAUAYA8A8282828282828AKUR
॥३३॥