________________
प्रथमः
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तत्'-तस्मात् । 'मैत्रीविलासप्रासाद'-मैत्रीक्रीडामन्दिर । 'प्रभो'-मुने । 'प्रसादं कुरु'-अनुग्रहं कुरु । 'करुणातरुणीपुण्यतरतारुण्य'-कृपाकामिनीपवित्रतरयौवन । मां तारय ॥ १०२ ॥
इमं दोषाकरं बालं दुर्बलं विगलद्वसुम् । निजसम्भावनेनात्र, पवित्रय महाव्रतिन् ॥ १०३ ॥
'महाव्रतिन्'-हे महामुने । शङ्कर-पक्षे-महादेव । 'महाव्रती वह्निहिरण्यरेताः' इति हैम्यां शिवनामसु । अत्र गृहे 'निजसम्भावनेन'-स्वागमनेन । पक्षे स्वोपरिधारणेन । 'इम-बालं' शिशुम् । पक्षे बालचन्द्रम् । 'पवित्रय'-पुनीहि । कथम्भूतं बालम् ? 'दोषाकर'-दोषसमूह-युक्तम् । पक्षे-निशाकरं (दोषाकर) चन्द्रम् । 'दुर्बलं'-नि:शक्तं पक्षेअल्पप्रकाशत्वात् बलविहीनम् । 'विगलद्वसं'-अविद्यमानद्रविणं पक्षे-अल्पकिरणम् । यथा महादेवः स्वजटायां बालचन्द्रं धारयति तथा हे मुने । मां मद्गृहागमनेन पुनीहि इत्यर्थः ॥ १०३ ॥
पूर्वरङ्गं विधायेति सुधाऽऽसारकिरा गिरा । आनन्दाश्रुजलोद्गारेश्छटाच्छोटं किरन्निव ॥ १०४ ॥ निषिञ्चन्निव भावहूँ पङ्कं प्रक्षालयन्निव । जलपूर्वतया पूर्णं दानं दातुमिवोद्यतः ॥ १०५ ॥ सप्रसादं सप्रमोदं, सादरं भावभास्वरम् । भक्तिदक्षं गताकाङ्क्षमस्तकक्षमशिक्षितम् ॥ १०६ ॥ तस्मै परमपात्रायापरमोऽपि स्वकर्मतः । युतः परमया भक्त्या, परमान्नमदात्तदा ॥ १०७ ॥
'इति सुधाऽऽसारकिरा'-अमृतवृष्टिकारिण्या । 'गिरा'-वाण्या । 'पूर्वरङ्गं'-उपक्रमं भूमिकां । 'विधाय'-कृत्वा । 'तस्मै परमपात्राय'-मुनये तदा । 'परमान्नं'-पायसम् । 'अदात्'-अयच्छत् । कीदृशः स सङ्गमः ? आनन्दाश्रुजलोद्गारै:
828282828282828282828282828282828282
॥३४॥