________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
प्रमोदबाष्पनीरनिर्गमैः । 'छटाच्छोटं'-भास्वरबिन्दून् 'छांटणा' इति भाषायाम् । 'किरन्निव'-स्रवन्निव । 'भावहूँ'-भाववृक्ष अश्रुजलैः निषिञ्चन्निव । 'पर्क'-कर्दमं अश्रुजलैः प्रक्षालयन्निव । 'जलपूर्वतया'-पूर्णं दानं दातुं उद्यत इव । जलदानपूर्वकमेव दानं दीयते इति प्राचीनरूढिः । अत्र जलदानस्थाने हर्षा श्रुजलमेव ज्ञेयम् । 'सप्रसाद'-प्रसन्नतायुतं । 'सप्रमोदं'-सहर्षम् । 'सादरं आदरसहितम् । 'भावभास्वरं'-भावोज्ज्वलम् । 'भक्तिदक्षं-भक्तिकुशलम् । 'गताकाक्षं'-निष्कामम् । 'अस्तकक्षं'-कोटिरहितं, अनुपममित्यर्थः । 'अशिक्षितं'-शिक्षारहितं, न केनाऽपि शिक्षितं यथा स्यात् तथा । एतानि क्रियाविशेषणानि । पुनः कथम्भूतः स सङ्गमः ? 'स्वकर्मतः'-निजभाग्यात् । 'अपरमोऽपि'-अपगता रमा-लक्ष्मी: यस्मात् स अपरमोऽपि अनुपमोऽपि वा । परमया भक्त्या युतः ॥ १०४ ॥ १०५ ॥ १०६ ॥ १०७ ।।
रस: शान्तो मुनेानात्करुणश्चात्मनिन्दया । दानप्रवृत्तितो वीरश्चासम्भावनयाऽद्भुतः ॥ १०८ ॥ वचस्विनां वचोऽतीतमगम्यं योगिनामपि । अमेयं मतिमानानां चतुःसङ्करमाप सः ॥ १०९ ॥ (युग्मम्)
मुनेः ध्यानात् शान्तः रसः । आत्मनिन्दया च करुण: रसः । दानप्रवृत्तित: वीरः रसः । 'असम्भावनया' अकल्पनया अद्भुतः रसः । ‘स सङ्गमः चतुःसङ्करं' चतुः संयोगं चतुर्णा रसानां मिश्रणम् । 'आप' प्रापत् । कथम्भूतं चतुः-सङ्करम्? 'वचस्विनां'-वाग्मिनाम् । 'वचोऽतीतं'-वचनातीतम् । 'योगिनामपि' योगधारिणामपि । 'अगम्यम्' अपार्यम् । 'मतिमानानां' मतिरेव मानं प्रमाणं येषां ते मतिमानास्तेषाम् । 'अमेयं'-अप्रमेयम् ॥ १०८ ॥ १०९ ॥
मुनये क्षीरदानम्प्रगृहीताभिधां भिक्षां दक्षः षष्ठी विचार्य सः । प्रगृहीतां मुनिश्चक्रे तदनुग्रहसाग्रहः ॥ ११० ॥
8282828282828282828282828282828888
॥३५॥