________________
प्रथम
पक्रम:
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
भिक्षा सप्तविधा भवति । तद्यथा-"संसट्ठ-मसंसट्ठा उद्धड तह अप्पलेविया चेव । उग्गहिआ पग्गहिआ उज्झियधम्मा य सत्तमिआ ॥" (१) संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा । (२) असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा । (३) स्थाल्यादिभ्यः स्वार्थं भोजनाय उत्क्षिप्ता 'उद्धृता' । (४) निर्लेपं पृथुकादि, तत्स्वरूपा अल्पलेपा । (५) भोजनकाले शरावाद्याहितभोज्यवस्तुमध्यादुत्पाटिता उद्गृहीता । (६) भोजनार्थं करोपात्तभोज्यमध्याद् दातुमीष्टा प्रगृहीता । (७) अन्यानभिलष्यमाणा परित्यज्यमानभक्ताद्यन्नरूपा उज्झितधर्मा ।
'दक्षः' निर्दोषाऽन्नग्रहणे कुशलः । स मुनिः प्रगृहीताभिधां षष्ठी भिक्षां विचार्य तदनुग्रहसाग्रह:-सङ्गमानुग्रहपरायणः मुनिः तां भिक्षां 'प्रगृहीतां' उपात्ताम् । चक्रे कृतवान् । अगृह्णादित्यर्थः ॥ ११० ॥
तत्पुण्यराशिपल्यस्य धर्मलाभाशिषा शिखाम् । मुनिर्निर्माय निर्माय-चित्तः स्वाश्रयमाश्रयत् ॥ १११ ॥
'तत्पुण्यराशिपल्यस्य' सङ्गमपुण्य पुञ्जपल्यस्य । पल्यो धान्यमानविशेषः । 'धर्मलाभाशिषा' धर्मलाभप्रदानेन । 'शिखां' धर्मलाभदानरूपाम् । 'निर्माय' कृत्वा । 'निर्माय-चित्तः' मायारहितमानसः । 'मुनिः' तपोधनः । 'स्वाश्रयं' निजधामम् । 'आश्रयत्' गतः ॥ १११ ॥
828282828282828282828282828282828282
॥३६॥