________________
श्री
शालिभद्र महाकाव्यम्
Terr
माता गृहान्तरायाता, तस्मै सुस्मेरमानसा । निषण्णायाविषण्णात्मा, पायसं पुनरप्यदात् ॥ ११२ ॥
'सुस्मेरमानसा' - प्रफुल्लचित्ता । 'गृहान्तरायाता' - अन्यगृहादागता । 'अविषण्णात्मा' प्रसन्नात्मा । 'माता' धन्या । 'तस्मै निषण्णाय'- उपविष्टाय सङ्गमाय । 'पायसं' - परमान्नम् । 'पुनरपि'- भूयोऽपि । 'अदात् ' यच्छति स्म ॥ ११२ ॥ भोजयेन्मधुरं स्निग्धमम्बा बालं बलादपि । भुक्तोऽयं स्वयमेवेति, हृष्टा नाचष्ट किञ्चन ।। ११३ ॥ 'अम्बा'- माता । 'बलादपि' आग्रहपूर्वकमपि । 'बालं'- शिशुम् । 'स्निग्धं' - मधुरं मृष्टमन्नम् । 'भोजयेत्' - भोजनं कारयेत् । अयं सङ्गमस्तु स्वयमेव भुक्तः इति विचिन्त्य । 'हृष्टा' प्रमुदिता । किञ्चन। 'नाचष्ट' न कथितवती ॥ ११३ ॥
अहो काऽप्यस्य बालस्य लोभसंक्षोभसङ्गतिः । मुनिदानफले येन, पश्य माताऽपि वञ्चिता ॥ ११४ ॥ 'अहो' इत्यामन्त्रणे । 'पश्य' विलोकय । अस्य बालस्य । 'लोभसंक्षोभसङ्गतिः '- लोभसंक्षोभसङ्गमः । काऽपि अद्भुता । येन मुनिदानफले माताऽपि वञ्चिता । दानाऽवसरे मातुरनुपस्थिते: कवेरियं कल्पना ॥ ११४ ॥
आ तूर्णं पुण्यपूर्णस्य, प्रमोदभरशालिनः । अमृताहारतस्तस्मात्, तस्यासीदाशितंभवः ॥ ११५ ॥
आ वाक्यारम्भे पादपूर्तावव्ययम् । 'प्रमोदभरशालिनः '-आनन्दातिशयशालिनः । 'पुण्यपूर्णस्य' - सुकृतपूरितस्य । 'तस्य' सङ्गमस्य । 'तस्मात् अमृताहारत:' मुनिदानात् सुधाभूतात् भोजनात् । 'तूर्णं' क्षिप्रम् । अतूर्णमित्यपि पाठः 'अतूर्णं' शनैः शनैः । 'आशितंभव:'- तृप्ति: । 'आसीत्' - अभवत् ॥ ११५ ॥
अथाचान्तः स विश्रान्तः प्रशान्ताभ्रान्तमानसः । अर्जितोर्जितराज्यश्री-रिवानन्दमविन्दत ॥ ११६ ॥
R&R
प्रथमः
प्रक्रमः
॥ ३७ ॥