________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ । 'आचान्तः' गृहीतचुलुकः । 'प्रशान्ताभ्रान्तमानसः'-प्रशान्तं अभ्रान्तं-भ्रान्तिरहितं च मानसं यस्य सः । 'विश्रान्तः'। 'सः' सङ्गमः । 'अर्जितोर्जितराज्यश्री: इव'-प्राप्त-महाराज्यलक्ष्मी: इव । 'आनन्दं'-मुदम् । अविन्दतप्रापत् ॥ ११६ ॥
प्रसाधितस्य तत्पुण्यपाकस्य प्रगुणैर्गुणैः । अप्रमेयमपि प्राज्ञाः सम्भावयत सौरभम् ॥ ११७ ॥
'प्रगुणैः'-सज्जैः । 'गुणैः'-आत्मगुणैः । पाकपक्षे-सूदैः । 'सूदस्त्वौदनिको गुणः' इति हैम्याम् । 'प्रसाधितस्य'निर्मितस्य । 'तत्पुण्यपाकस्य' सङ्गमपुण्यविपाकस्य । पक्षे-पवित्रभोजनस्य । 'अप्रमेयमपि'-अनन्तमपि । 'सौरभं'-सुरभि । 'प्राज्ञाः' हे बुद्धिमन्त: ! । 'सम्भावयत'-चिन्तयत ॥ ११७ ॥
तथाहि-मङ्गल्यं दक्षिणावर्त तीक्ष्णघाति रसायनम् । गुर्वदाह्यं पवित्रं च ननं दानं सुवर्णति ॥ ११८ ॥
दानं सुवर्णति सुवर्णमिव जायते । कथम् ? 'मङ्गल्यं' उपद्रवोपशमनात् । सुवर्णपक्षे दारिद्रयामङ्गलाऽपनयनात् मङ्गलकारि। 'दक्षिणावर्त' जीवानुकूल्यात् । पक्षे तप्तं सुवर्णं दक्षिणावर्तं करोति । 'तीक्ष्णघाति' तीक्ष्णं विषं मोहविषं तद्घातित्वात् तीक्ष्णघाति । 'तीक्ष्णं गरलः' इति हैम्याम् । पक्षे तीक्ष्णं लोहं तद्घाति । लोहं स्वर्णेन म्रियते इति धातुवादिनः । तीक्ष्ण-कृष्णामिषे अयः इति हैम्याम् । 'रसायनं' रसस्य शान्तरसस्य अयनात् प्राप्तेः रसायनम् । पक्षे रसेन पारदेन अयनं यस्य । 'गुरु' त्रिकोटिशुद्धत्वात् । पक्षे-गुरुत्वात् गुरु । 'अदाह्य' कुविकल्पादिना अग्निना अदाह्यम् । पक्षे अग्निना अदाह्यम् । 'पवित्र' निजफलदानात् । पक्षे-कुथिताऽभावात् । 'नदं' विनययुक्तम् । पक्षे-नमनशीलम् । एवमष्टगुणोपेतं दानं सुवर्णायते । सुवर्णमपि अष्टगुणोपेतं भवति यदुक्तं संवेगरंगशालायां भाव-साधु-वर्णने-विसघाइ रसायण मंगलत्थविणीए
satasa8RSR88RSONASRSASASASRSANASNA
॥३८॥