________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
पयाहिणावत्ते। गुरुए अडज्झऽकुच्छे, अट्ठ सुवन्ने गुणा हुंति ॥ ८८४८ ॥ इय मोहविसं घायइ, सिवोवएसा रसायणं होइ। गुणओ य मंगलत्थं, कुणइ विणीओ य जोगोत्ति ॥ ८८४९ ॥ मग्गणुसारि पयाहिण-गंभीरो गरुयओ तहा होइ । कोहग्गिणा अडज्झो, अकुच्छ सइ सीलभावेणं ॥ ८८५० ॥ ॥ ११८ ॥
दाक्षिण्याद्धातुवादोत्थमुपदेशात्तु धातुजम् । दानं स्वारिकं हेम कुमारं गीयतेऽधिकम् ॥ ११९ ॥
'दाक्षिण्यात्'-नैपुण्यात् । 'धातुवादोत्थं'-धातुवादजनितं । उपदेशात्तु धातुजं हेम । यदुक्तम्-"रससिद्धि: कला विद्या, धर्मस्तत्त्वं धनार्जना । विना गुरूपदेशेन, प्राज्ञस्यापि न सिध्यति ।" 'इदं दानं हेम-सुवर्णं तु । 'स्वारसिकं'-स्वरसेन निर्वृत्तं स्वारसिकम् । कुमारं शुद्धसुवर्ण अधिकं गीयते - कीर्त्यते । अयं भाव:-धातुजं हेम दाक्षिण्य-धातुवादोपदेशादिबहुवस्तूनि अपेक्षते । इदं दानहेम स्वारसिकं निरपेक्षमस्ति । अत एव तत् कुमारं शुद्धसुवर्णं गीयते ॥ ११९ ॥
महामहायँ दुर्लम्भं, स्वयंभूर्भूतदोषहृत । शालिग्रामभवं दानमेतत् स्वर्णं कुमारकम् ॥ १२० ॥
'महामहायँ'-अतीव अमूल्यम् । 'दुर्लभ्यं'-दुष्प्रापम् । 'स्वयम्भूः' गुर्वाद्युपदेशरहितं स्वयं भवतीत्येवंशीलम् । स्वर्णपक्षे-न धातुजम् । 'भूतदोषहृत्'-अतीतकालाजितपापहारि । पक्षे-प्रेतदोषापहारि । 'शालिग्रामभवं'-शालिग्रामे भवंजातम् । एतत् दानं कुमारकं अतिशुद्धं स्वर्णं कथ्यते ॥ १२० ॥
कुमारकनकाकारं दानमत्राजनिष्ट यत् । इतीव संनिवेशोऽयं शालिग्राम इतीरितः ॥ १२१ ॥ 'अत्र यत् कुमारकनकाकारं'-शुद्धस्वर्णसमानम् । पक्षे-कार्तिकेयसमानम् । कार्तिकेयः किल शङ्करपुत्र: । 'दानम् ।
828282828282828282828282828282828282
॥३९॥