________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
SASASAR 8282828282828282828282828282
गोधनैः-वाग्धनैश्च पंडितैरित्यर्थः । शोभनगोवृन्दैश्च । 'सम्बाधः' सङ्कलः । 'नगधोरणिबन्धुरः' न गच्छतीति नग: पर्वत: वृक्षश्च तेषां धोरण्या-श्रेण्या बन्धुरः-मनोहर: 'मगधो नाम देशोऽस्ति' ॥ १२ ॥
आसीदिह महाशालि-पालिशालितसीमभूः । 'शालिग्राम' इति ग्राम-ग्रामणी रामणीयकात् ॥ १३ ॥
'इह' मगधदेशे 'रामणीयकात्' रमणीयत्वप्रधानत्वात् । 'ग्रामग्रामणी:' ग्राममुख्य: । 'शालिग्राम' 'इति' नाम्ना 'आसीत्' कथम्भूत: ? 'महाशालिपालिशालितसीमभूः' महान्त:-मनोहरा इत्यर्थः शालयः उत्तमतन्दुलाः येषु तानि । उपलक्षणतः क्षेत्राणि तेषां पालिभिः (भाषायां 'पाल') शालिता-शोभिता सीमभूः-प्रान्तक्षितिः यस्य सः ॥ १३ ॥
'दुग्धध्वनि-धनालोक-पयस्यामोद-भोजनैः । बालोर्णाकम्बल-स्पर्श-यंत्र वैषयिकं सुखम् ॥ १४ ॥
'दुग्धध्वनि धनालोक पयस्यामोद भोजनैः' दुग्धध्वनिः-गोदोहनकाले जायते हि ध्वनिः, धनालोकः गोवृन्ददर्शनं 'गोकुलं गोधनं धनम्' इति हैमनाममालायाम् । पयस्यामोदः-परमान्नसुगन्ध; भोजनैः भोज्यैः । 'बालोर्णाकम्बलस्पशैंः' | 'बालमेण्ढकोर्णानिर्मितकम्बलस्पर्शनैः श्रोत्र-नेत्र-घ्राण-रसन-स्पर्शन-क्रमेण पञ्चप्रकारम्। 'वैषयिकं' इन्द्रियविषय-जन्यं देशजं च । 'विषयस्तूपवर्तनम् । देशो जनपदो नीवृत्' इति हैम्याम् । 'सुखं' शर्म । 'यत्र' शालिग्रामे अभवत् ॥ १४ ॥ |
पानीयच्छायालङ्कारी, बहुधान्योपकारकः । ऋजुनिष्पकमार्गश्रीः, स ग्रामः सज्जनायते ॥ १५ ॥
'सः' शालिग्रामः 'सज्जनायते' सज्जन इव आचरति । कथम् ? 'पानीयच्छायाऽलङ्कारी' सरस्यादीनां पानीयेजले नगरस्य या छाया-प्रतिबिम्बं सैव अलङ्कारा: भूषणानि तद्वान् । सज्जनपक्षे-पानीयवत् स्वच्छा छाया-कान्तिः येषां ते तद्वान् । सज्जनो हि महत्त्वशोभार्थमलङ्कारान् धारयति । 'बहुधान्योपकारकः' बहुधान्यादिभि: उपकारकः । पक्षे-'बहुधा'
satasa8RSR88RSONASRSASASASRSANASNA
॥
७
॥