________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
बहुप्रकारेण अन्यस्य उपकारकः । परोपकारपरा हि सज्जनाः । यदुक्तम्-"पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां: विभूतयः ॥ १ ॥ 'ऋजुनिष्पकमार्गश्री:' 'सरलपङ्कहीनमार्गश्री:' सरला-अवका पङ्कहीना-कर्दमरहिता मार्गश्री:-मार्गशोभा यस्मिन् सः । पक्षे-सरला-अकुटिला पङ्कहीनापापरहिता मार्गश्री:-जीवनपथशोभा यस्य सः ॥ १५ ॥
धन्या-वर्णनम्धनुर्वल्लिरिवोच्छिन्न-वंशाऽपि गुणसंगता । प्रतिपच्चन्द्रलेखेव, निष्कलङ्का कृशाऽपि या ॥ १६ ॥ कदलीवदसाराऽपि, प्राञ्जला शीतला मृदुः । निराधाराऽपि हि सदा-चारा तारावलीव या ॥ १७ ॥ सर्वत्राहितसौजन्या, तत्र मान्या निजैर्गुणैः । अभूदभिधया धन्या, नारी नारीणवैभवा ।। १८ ॥
'तत्र' शालिग्रामे 'अभिधया' नाम्ना 'धन्या' 'नारी' स्त्री अभूत् । कथम्भूता सा ? या उच्छिन्नवंशा-उच्छिन्नः वंश: कुलपरंपरा यस्याः सा । धनुःपक्षे-उच्छिन्नः वंश:-वेणुः यस्याः सा । 'अपि' तथापि । 'धनुर्वल्लिरिव' धनुर्यष्टिरिख 'गुणसंगता' गुणैः संगता । पक्षे-प्रत्यञ्चा-युता । 'प्रतिपच्चन्द्रलेखा इव' शुक्लपक्षप्रथमतिथिशशिरेखा इव 'कशाऽपि' दुर्बलाऽपि 'या' धन्या 'कलङ्करहिता' चौर्यादिकलंकहीना । चन्द्रपक्षे-मृगरूपश्यामकलंकेन रहिता । नहि भवति प्रतिपच्चन्द्रे कलंकः ॥ १६ ॥ 'कदलीवत्' मोचातरुवत्, 'असाराऽपि' धनरूपसाररहिताऽपि, पक्षे-बलरहिता, भवति हि कदलीस्तम्भ: असारः । 'प्राञ्जला' अकुटिला सरला, कदलीवृक्षोऽपि सरल एव भवति । 'शीतला' अकोपना, कदल्यपि शीतैव । 'मृदुः' कोमला कदल्यपि मृदुरेव । 'या' 'तारावलीव' तारकश्रेणिरिव 'निराधाराऽपि' पत्याद्याधाररहिताऽपि । तारापक्षेगगनसञ्चारित्वात् निराधारा । 'हि' निश्चयदर्शकमव्ययम् । 'सदाचारा' शुभचरित्रा पक्षे-सततभ्रमणशीला ॥ १७ ॥
satasa8RSR88RSONASRSASASASRSANASNA