________________
प्रथम
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सुशब्दभूः' शोभन: शब्द:-कीर्ति: तस्य भू:-उत्पत्तिस्थानम् । दानेन हि कीर्तिः जायते । यदुक्तम्-'यत्नानुसारिणी विद्या, लक्ष्मी: पुण्यानुसारिणी । दानानुसारिणी कीर्तिः बुद्धिः कर्मानुसारिणी ॥ पक्षे-सुशब्दः शङ्खनादः तस्य भूः उत्पत्तिस्थानम्। 'दक्षिणावर्त्तशंखश्री:' दक्षिणावर्त्तशंखस्य श्री: इव श्रीः यस्य सः 'दानधर्मः' ॥ ९ ॥
'यस्य अच्युतश्रियः' अच्युता अभ्रष्टा श्री: दानजन्या लक्ष्मीः यस्य स अच्युतश्री: तस्य शालिभद्रपूर्वभवजीवसङ्गमस्य। शङ्कपक्षे-अच्युता अभ्रष्टा श्री: लक्ष्मीः यस्य तस्य विष्णोः ।
'श्रीशालिभद्रं' श्रीशालिभि: कलमौदनैः-शालिनिर्मित-पायसेनेति भावः भद्रं-मंगलं भद्रकरमित्यर्थः यस्य तम् । विष्णुपक्षे-श्रिया लक्ष्म्या शोभया वा शालते शोभते इत्येवंशीलं भद्रकरं च । 'करं' हस्तम् । 'हेलया' लीलया । 'कलयामास' भूषितवान् । भवति हि विष्णुहस्ते दक्षिणावर्तः पाञ्चजन्यनामा शङ्खः । 'तं' श्रीशालिभद्रम् । 'कथया' चरित्रेण । 'प्रथे' प्रसिद्धं करोमि ॥ १० ॥
तावदाबालगोपाल-महेलं प्रथिता कथा । श्रीरामस्येव सौभाग्य, श्रीशालेः किञ्चिदुच्यते ॥ ११ ॥
'तावद्' 'आबालगोपालमहेलं' आशिशुगोपाङ्गनम् । 'श्रीरामस्य' 'इव' यस्य 'कथा' 'प्रथिता' प्रसिद्धा । तस्य 'श्रीशाले:' शालिभद्रस्य 'सौभाग्य' 'किञ्चिद्' 'उच्यते' कथ्यते । श्रीशाले: पूर्णसौभाग्यकथने मादृशां क्व शक्तिः? ॥ ११ ॥
धनधान्यैरगाधश्रीः, सम्बाधः साधुगोधनैः । देशोऽस्ति मगधो नाम, नगधोरणिबन्धुरः ॥ १२ ॥ 'धनधान्यैः' द्रव्यान्नैः । 'अगाधश्रीः' अगाधा-अस्थागा श्री:-लक्ष्मीः यस्य सः । 'साधुगोधनैः' साधुभिः-सज्जनैः
8282828282828282828282828282828888
॥६
॥