SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रथमः पक्रम: शालिभद्र महाकाव्यम् 82828ksa 8282828282828282828282828282 सोमेन चन्द्रेण तुल्या प्रभां येषां ते तन्नामका: सूरय: आचार्याः । 'गुरवः' गुरुदेवा: । 'प्रसीदन्तु' प्रसन्नाः भवन्तु । अयं भाव:-चन्द्रोपलश्चन्द्रकिरणैः संस्पृष्टः सन् जलं मुञ्चति तथा अहमपि श्रीसोमप्रभ-गुरुकरसम्पर्कात् काव्यरसं मुञ्चामिकाव्यं कुर्वे इति ॥ ६ ॥ श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नश्चिरं जीयात्, ग्रन्थस्यास्यापि शुद्धिकृत् ॥ ७ ॥ 'अस्य ग्रन्थस्य' शालिभद्रकाव्यस्य 'शुद्धिकृत्' संशोधकः 'श्रीप्रद्युम्नमुनिरपि' 'चिरं' 'जीयात्' जयतु । कथम्भूतः? 'श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यराट्' श्रीदेवानन्दस्य शिष्यश्रीकनकप्रभमुनेः शिष्यराट विनेयमुख्यः ॥ ७ ॥ येभ्यः श्रीजैनधर्मस्य, महोदयमयी प्रभा । पूज्या नन्दन्तु ते श्रीम-दुदयप्रभसूरयः ॥ ८ ॥ 'ते पूज्या श्रीमदुदयप्रभसूरयः नन्दन्तु' जयन्तु । 'येभ्यः श्रीजैनधर्मस्य' 'महोदयमयी' परमानन्दपूर्णा मोक्षमार्गप्रकाशिनी 'प्रभा' कान्ति: प्रसूता ॥ ८ ॥ दक्षिणावर्त्तशंखश्रीर्दानधर्मः सुशब्दभूः । हेतुरक्षीणलक्ष्मीणां, भवाम्भोधौ सुदुर्लभः ॥ ९ ॥ हेलया कलयामास, करं यस्याच्युतश्रियः । श्रीशालिभद्रं श्रीशालि-भद्रं तं कथया प्रथे ॥ १० ॥ 'भवाम्भोधौ' संसारसागरे । शंखपक्षे-भववत् महादेववत् रुद्रे भीमे सागरे । 'सुदुर्लभः' अतिदुष्प्रापः, दक्षिणावर्त्तशंखवत् दानधर्मोऽपि सुदुर्लभः । 'अक्षीणलक्ष्मीणाम्' अक्षयश्रीणाम् । पक्षे-अनश्वरलक्ष्मीणां ‘हेतुः' कारणम् । दक्षिणावर्तशङ्के निधिस्थिते वर्धते हि लक्ष्मीः । 82828282828282828282828282828282828
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy