________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'यस्य' वीरजिनस्य 'प्रबलमिथ्यात्वदन्तिना' दृढ-मिथ्यादर्शनहस्तिना 'आद्यजन्ममहादानमूलः' आद्ये जन्मनि नयसारभवे विहितं महादानं-सुपात्रदानमेव मूलं यस्य सः । 'बोधिपादपः' सम्यक्त्ववृक्षः पक्षे-पिप्पलवृक्षः । 'न उन्मूलितः' न निर्दलितः। गजो हि पिप्पलं आत्मीयं भोज्यं मत्वा नोन्मूलयति । 'पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः' इति हैमनाममालायाम् ॥ ३ ॥ तथा 'यश्च नि:संगोऽपि' त्यक्तसंगोऽपि 'दयादाने' कृपात्यागौ । 'कोटिं' उत्तमकोटि कोटीश्वरपक्षे-लक्षशतम् 'प्राप्ते' गते 'देवदूष्यं' इन्द्रदत्तं स्कन्धस्थितं विशिष्टवस्त्रं 'ध्वजं' वस्त्रपक्षे-पताकां 'ददौ' याचनार्थमागताय भूदेवाय दत्तवान् ‘स श्रीवीरः' श्रीवर्धमानस्वामी 'वः' युष्माकम् 'शिवाय' भद्राय मोक्षाय वा भवतु । यः कोटीश्वरो भवति स निजगृहोपरि ध्वजं दत्ते इति प्राचीनरूढिः ॥ ४ ॥
बुधैर्विचारिता चारु विश्वत्रितयगोचरा । पुण्यप्रस्रवणोच्चारा, गौर्देवी कामदाऽस्तु मे ॥ ५ ॥
'बुधैः' पंडितैः कामधेनुपक्षे-विबुधैः दैवैरित्यर्थः । 'चारु' साधु 'विचारिता' व्याख्याता पक्षे-विशेषेण चारिता 'विश्वत्रितयगोचरा' त्रिलोकविषया पक्षे-विश्वत्रितयमेव गोचर: गवां चारस्थानं यस्याः सा 'पुण्यप्रस्रवणोच्चारा' पुण्यंपवित्रं प्रस्रवणं-प्रकर्षेण स्रवणं उच्चारणं यस्याः सा । पक्षे-पुण्यं-पवित्रं प्रस्रवणं-मूत्रं उच्चार:-गोमयं च यस्याः सा । 'गौर्देवी' वाग्देवी-सरस्वती, पक्षे-कामधेनुः । 'मे' मम 'कामदा' इष्टदात्री 'अस्तु' भवतु ॥ ५ ॥
यदीय-कर सम्पर्काद्, रसोल्लासोऽश्मनोऽपि मे । गुरवस्ते प्रसीदन्तु, श्रीसोमप्रभसूरयः ॥ ६ ॥
'यदीयकरसम्पर्काद्' यदीयहस्तसंसर्गात् सोम(चन्द्र)पक्षे-यदीयकिरणसंयोगात् 'अश्मनोऽपि' दृषदोऽपि 'मे' दुषत्तुल्यजडस्य मम पक्षे-चन्द्रकान्तमणेः 'रसोल्लासः' काव्यरसप्रादुर्भावः जातः पक्षे-रसक्षरणम् । 'ते श्रीसोमप्रभसूरयः'
ARRARAUAYA8A8282828282828AKUR
॥
४
॥