________________
प्रथमः
॥ अथ प्रथमः प्रक्रमः ॥
पक्रम:
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीदानधर्मकल्पद्रुर्जीयात् सौभाग्यभाग्यभूः । पूर्वापश्चिमतीर्थेश-लक्ष्मीभोगमहाफलः ॥ १ ॥
'श्रीदानधर्मकल्पद्रुः' श्रीदानधर्म एव कल्पद्रुः कल्पवृक्षः 'जीयात्' जयतु । कथम्भूतः सः? 'सौभाग्यभाग्यभूः' सौभाग्यं च भाग्यं च सौभाग्यभाग्ये ते एव 'भूः' भूमिः प्रभवस्थानं यस्य सः । पुनः कथम्भूतः ? 'पूर्वापश्चिमतीर्थेश-लक्ष्मीभोगमहाफलः' पूर्वश्च अपश्चिमश्च पूर्वापश्चिमौ न विद्यते पश्चिमः-पश्चात् यस्मात् स अपश्चिमः चरम इत्यर्थः पूर्वापश्चिमतीर्थेशानां श्रीआदिजिनवीरजिनानां, लक्ष्मीणां बाह्यान्तरश्रीणां भोगा एव महाफलानि यस्य सः ॥ १ ॥ ___ आदौ धनभवे येन, घृतमेघायितं तथा । जज्ञे यथो:शस्यश्रीः श्रीनाभेयः स वः श्रिये ॥ २ ॥
'येन' आदिजिनेन 'आदौ धनभवे' धनसार्थवाहरूपे प्रथमभवे 'तथा' 'घृतमेघायितम्'-घृतमेघवदाचरितम्, 'यथा' 'उर्वी-शस्य'-राज्ञः 'श्रीः' लक्ष्मी: मेघपक्षे-'उर्वी' विशाला 'शस्यश्रीः' धान्यलक्ष्मी: । 'जज्ञे' जाता 'स' 'नाभेयः' नाभिसूनुः श्रीआदिनाथः 'वः' युष्माकम् 'श्रिये' बाह्यान्तरलक्ष्म्यै भवतु । श्रीआदिनाथजीवेन किल धनभवे धर्मघोषमुनये घृतदानमकारि ॥ २॥
आद्यजन्ममहादानमूलो नोन्मूलितः किल । यस्य प्रबलमिथ्यात्व-दन्तिना बोधिपादपः ॥ ३ ॥ कोटि प्राप्ति दयादाने, देवदूष्यं ध्वजं किल । निस्सङ्गोऽपि ददौ यश्च, श्रीवीरः शिवाय वः ॥ ४ ॥
828282828282828282828282828282828282
॥३
॥