________________
प्रथमः
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
यशस्वी वर्चस्वी प्रशमजलधि: संयमनिधिः, गणेश: सूरीशो, जयतु कनक: शर्म-जनकः । तपस्वी तेजस्वी सरल-प्रकृति: पाप-विरतिः, मुनीन्द्रो देवेन्द्रो जगति गततन्द्रो विजयताम् ॥ ७ ॥ अध्यात्ममूर्ति शशिशुभ्रकीति, संसारभीति परमात्मप्रीतिम् । पयोजकान्ति परम-प्रशान्ति, सूरि कलापूर्णमहं नमामि ॥ ८ ॥ मधुरवचनं सौम्या-ननं सौभाग्यशालिनम् । कलाप्रभं स्तुवे बन्धु-कल्पतरूपशोभितम् ॥ ९ ॥ मृत्यु-व्याधि-जनुर्जरादिलहरी-माला-कराले भृशं, मज्जन्तं भव-वारिधावशरणं, दीनं समुद्धत्य माम् । शीघ्रं स्थापितवान् व्रत-प्रवहणे, कारुण्यमानीय यः, तस्मै मद्गुरवे नमोऽस्तु सततं, श्रीमुक्तिचन्द्राय च ॥ १० ॥ यस्याः प्रसादात् किल मादृशोऽपि, शक्तोऽभवद् वृत्ति-विधान-कार्ये । तां भारती रञ्जितविज्ञ-वर्गा, स्मृति समानीय च हंसयानाम् ॥ ११ ॥ धर्मकुमार-सन्दृब्ध-काव्यस्याऽय तनोम्यहम् । बालोपकारिणीं टीका, सरलामर्थदर्शिनीम् ॥ १२ ॥
(युग्मम्) वाणी धर्मकुमारस्य, यतिगाम्भीर्यशालिनी । सागर-मथने नूनं, कुणेर्मेऽयं तदुद्यमः ॥ १३ ॥ क्व वाग् धर्मकुमारस्य, क्व च हीना मति मम । क्व तरणिः क्व खद्योतः, क्व मेरुः क्व च राजिका ॥ १४ ॥ | तथापि पुण्यपालस्य, साधोः सम्प्राप्य प्रेरणाम् । सज्जीभूतोऽस्मि टीकायां, धाष्टयं क्षाम्यन्तु मे बुधाः ॥ १५ ॥
अथाष्टभिः श्लोकै र्ग्रन्थकार-मङ्गलाचरणम्
828282828282828282828282828282828282