________________
श्री
शालिभद्र
महाकाव्यम्
PARYAY
महाकविभिः श्रीधर्मकुमारपण्डितैरिदं काव्यं कच्छदेशस्थितभद्रेश्वरतीर्थे (वि.सं. १३३४ ) विरचितम् । अस्य टीकापि कच्छदेशे रचनां प्रकाशनं च प्राप्तेत्यप्येका योगानुयोगघटनैवास्ति ।
नागेन्द्रगच्छीयाचार्यहेमप्रभसूरिपट्टधराचार्य धर्मघोषसूरि-पट्टधराचार्य सोमप्रभसूरिपट्टधराचार्य श्रीविबुधप्रभसूरीणां प्रेरणां प्राप्येदं काव्यं श्रीधर्मकुमारैः सन्दृब्धमस्ति । प्रद्युम्नमुनिना च संशोधितमिति प्रतिप्रक्रमान्ते 'श्रीप्रद्युम्नधिया शुद्धे' इति श्लोकपदेन दर्शितमस्ति ।
प्रभाचन्द्रगणिवरेण चास्य प्रथमादर्शो लिखितः ।
एभि: कविवरै र्निर्मिता अन्ये ग्रन्था नास्मद्दृष्टिपथमायाताः किन्त्वियमेकैव कृतिरेतेषामसाधारणबुद्धिप्रतिभादर्शनायालमेवास्ति । टीका- रचना :
इदं काव्यं ८० वर्षपूर्व (वि.सं. १९६६) मात्रमूलश्लोकरूपमेव मुद्रितमस्ति (अधुनाऽप्राप्यप्रायमस्ति ) । यद्यपि तस्मिन् अवचूरिद्वाराऽर्थ रहस्योद्घाटनप्रयासः कृतोऽस्ति तथापि बहुस्थले स्फुटमर्थबोधो न जायतेऽतः सामान्यवाचकाः काव्यमर्म सम्पूर्णतया ज्ञातुं न शक्नुवन्ति । यतः पण्डित श्रीधर्मकुमाराणां वाण्यर्थगम्भीराऽस्ति । यथा यथा चिन्त्यते तथा तथा तस्या नूतना अर्थाः प्रादुर्भवन्तो दृश्यन्ते । विरलतरा एव तादृशाः श्लोका येषु श्लेषार्थो न स्यात् । बाह्यदृष्ट्या सरलेषु श्लोकेषु गम्भीरशब्दरूपजवनिकाप्रच्छन्नो द्वितीयोऽर्थः सामान्यवाचकदृष्टिपथे नैव समायाति न स्याच्चेत्तत्र कोऽपि तज्जवनिकाऽपसारी विज्ञजनः । एषा टीका तज्जवनिकामपसार्य प्रच्छन्नार्थान् वाचकानां पुरस्तात् प्रकटयति ।
नववर्षपूर्वं (वि.सं. २०३७) पूज्य श्रीपुण्यपालविजयमुनिभिः पालीताणानगरे एतत्काव्योपरि टीका-रचनार्थं मह्यं
RACKER
॥ ४६ ॥