________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
मुनिधर्मकुमारबुद्धिदर्शकोऽयं श्लोक:
ब्राह्मी निर्मलशब्दसिद्धिकलिता, मन्ये पवित्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा, नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता, सर्वप्रियम्भावुका, जीयाद् धर्मकुमारपण्डितमतिः, विस्तारिधर्मोन्नति: ७ /१५८ अहं मन्ये धर्मकुमारपण्डितस्य बुद्धिः सरस्वती लक्ष्मीः पार्वती वाऽस्ति । बुद्धि...
..सरस्वती
व्याकरणदोषशून्यशब्दसिद्धिभिः. शोभमाना पवित्रभावपूर्णा ।
श्लोकेषु विविधार्थसमूहं जनयती, उत्तमपण्डितलोकानां चातिप्रिया ।..
मङ्गलरूपशालिभद्रचरित्र - रचयित्री, सर्वलोकप्रिया ।
निर्दोषशब्दसिद्धिभिः शोभमाना पवित्रान्तःकरणा ।
. लक्ष्मीः
. विविध-धन-समूहं जनयती, विष्णोः प्रियतमा ।
. पार्वती
. मङ्गलेन शोभमानं भद्रं वृषभं धारयता
. महादेवेन सह चरणशीला सर्वभक्तानां
. ( शक्त्युपासकानां ) प्रिया ।
विस्तरणशीलधर्मोन्नतिमतीयं धर्मकुमारमतिः जयतु । ७ / १५८
FRERERER
॥ ४५ ॥