SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 गौणार्थः समुद्रमन्थनसमये देवेष्वेकेन विष्णुनैव लक्ष्मीः प्राप्ता । राजाज्ञा गृहगोधेव, हिंसा-ध्याने धुरन्धरा । अकस्मात् पतिता मूलि, मातः ! सन्तापसूचिका ॥ ५/११० गृहगोधातुल्या राजाज्ञा सदा हिंसाध्याने तत्पराऽस्ति । हे अम्ब ! यदि साऽकस्मान्मस्तके पतेत्तर्हि सन्तापसूचिका स्यात् । प्रस्तुतं दानधर्मेण, श्री शालिचरितं शुभम् । गोभद्रेण श्रीविबुध-प्रभेण तु विशेषितम् ॥ ७/१४८ श्रीमद्भद्रेश्वरे वीर-पादोपान्ते समर्थितम् । भूयात् सकर्णकर्णाना-ममृतप्रातराशवत् ॥ ७/१४९ क्षीरदानरूपेण धर्मेणोपक्रान्तं देवेषु प्रकाशमानप्रभेण गोभद्रदेवेन वैशिष्ट्यं प्राप्तं मङ्गलमयमिदं शालिभद्र-जीवनम् द्वितीयोऽर्थः मुनिश्रीधर्मकुमारपण्डितविरचितं, पृथिव्यां वाण्या वा मङ्गलरूपस्य श्रीविबुधप्रभसूरेः प्रेरणातः विशेषतां गतम् ॥ १४८ ॥ कच्छदेशस्थित श्रीभद्रेश्वरतीर्थे स्थित्वा विरचितमिदं शालिभद्रकाव्यं चतुरजनकर्णानां प्रातर्भोजनसमं भूयात् ॥१४९ ।। इयं कथा वृद्धकुमारिकेव, सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद्, बभूव पाणिग्रहणस्य योग्या ॥ १/१५३ वृद्धकुमारीतुल्येयं कथा काव्यदोषपूर्णा काव्यालङ्कारशून्या चासीत् परन्तु पूज्यश्रीप्रद्युम्नाभिधमुनेः कृपया सा हस्तग्रणयोग्या (वाचनयोग्या) जाता । (इदं काव्यं प्रद्युम्नाभिधैः मुनिभिः संशोधितमस्ति) गौणार्थः अपरिणीता वृद्धा कुमारी कामदेवकृपया विवाहोचिता युवती जाता । तेषु श्लोकेषु पठितेषु ज्ञायते यदिमे कवयोऽपूर्वशब्द-कौशल्याधिपतयोऽभूवन् । एतेषां शब्दचातुर्यं प्रतिपदं व्यज्यते । कविबुद्धिविषये तैरेव यत्कथितं तद् यथार्थमतिशयोक्तिरहितमेव । 828282828282828282828282828282828282 ॥४४॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy