________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
द्वात्रिंशता स्नुषाभिस्त्वं, ताराभिरिव रेवती । धिष्ण्यं श्रिता सुते भूयाः, कार्याणां सिद्धियोगकृत् ॥ ३/६२ द्वात्रिंशता पुत्रवधूभिः परिवृता प्रासादमाश्रिता त्वं पुत्रविषये कार्याणां सफलताकारिणी भूयाः ।
गौणार्थ: ताराभिर्वृता रेवती (नक्षत्र) शुक्रेण सह सिद्धियोगकारिणी भवति । अत्र कवीनां ज्योतिर्विषयकं विशालं ज्ञानं दृश्यते ।
मुनेरप्यार्द्रकस्येह, दोषज्ञस्यापि दुस्त्यजम् । स लावण्यरसस्नेह-सन्धानं विदधे सुतः || ३/७७
पापविज्ञाऽऽर्द्रकनाम्नः साधोरपि दुस्त्यजो लावण्यरसपूर्ण: प्रेम- संयोगः पुत्रेण शालिभद्रेण मया सह कृतः । गौणार्थ: रोगदोषज्ञवैद्यस्यापि दुस्त्यजं लवणतैलयुतमार्द्रकसन्धानं तेन कृतमस्ति । अत्राऽऽर्द्रक-दोषज्ञ-लावण्य-सन्धानाद्याः शब्दा द्व्यर्थत्वे सहजरूपेण ग्रथिता दृश्यन्ते ।
पार्थिवः सुरपुष्पौघः, प्रबुद्धोऽपि सदा चिरम् । तदङ्गसङ्गमं नाप, तस्य पुण्यमियत्कुतः ॥ ३/१०३ विकस्वर- पृथ्वीजन्य-गोभद्रदेवप्रेषित - कुसुम समूहस्तस्य (शालिभद्रस्य) समागमं सर्वकालं न प्राप (द्वितीयदिने स तानि त्यजति स्म ) तस्य इयद् भाग्यं कुत: ?
गौणार्थ: विद्वान् श्रेणिकराजाऽपि तस्याङ्गस्पर्शं चिरकालं न प्राप (अङ्कस्थं शालिभद्रं स्वाङ्गस्पर्शतो म्लानं विलोक्य भद्रोक्त्या तेन स त्यक्तोऽभूत्) तस्य राज्ञ इयत् पुण्यं कुतः ?
राशर्धनप्रसूनानां मथने शिशिरे किल । सुमनःसु श्रियं प्राप, कुन्द एव मुकुन्दवत् ॥ २ / १४९ भूरिकुसुमसमूहविनाशके शिशिरर्ती पुष्पेष्वेकं कुन्दपुष्पम् एव मुकुन्दवत् शोभां प्राप ।
TRERERY
॥ ४३ ॥