SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् TRERERY इह प्रस्तुतग्रन्थप्रणेतारः पण्डितमुनिश्री धर्मकुमारनामानः कवयोऽप्रसिद्धप्रायाः सन्ति । वैक्रमीयचतुर्दशशतकपूर्वार्धे जातैरेभिः कविभिः श्री शालिभद्रमहाकाव्याभिधोऽद्भुतग्रन्थों सन्दृब्धः । एतेनैकेनैव ग्रन्थेन ज्ञायते यदिमे कवयोऽत्युच्च - प्रतिभाशालिनोऽभूवन् प्रतिप्रसङ्ग प्रतिश्लोकं च नवीनत्व - द्व्यर्थत्वाद्यं स्फुटं समुपलभ्यते । एतेन च तेषां विशालं ज्ञानक्षेत्रमस्मदृष्टिपथमवतरति । ज्योति-मन्त्र- स्वरोदयशास्त्र-पुराणाद्यनेकविषयकान्यनेक वस्तूनि तैः स्वरचनायां ग्रथितानि सन्ति, यानि वाच्यमानान्यानन्दाश्चर्यकराणि जायन्ते । एतेषामेतादृशीं प्रतिभां दर्शयन्त इमे केचित् श्लोका: पानीयच्छायालङ्कारी, बहुधान्योपकारकः । ऋजुनिष्पङ्कमार्ग श्रीः, स ग्रामः सज्जनायते ॥ १/५ जले निपतत्प्रतिबिम्बालङ्कारवान् प्रचुरधान्येनोपकारकः सरल - कर्दमहीनमार्गवान् स ग्रामः सज्जनवत् शोभते । गौणार्थः जलकान्तिवत् प्रकाशमानानलङ्कारान् धारयन् बहुधा परोपकारी सरलनिष्पापजीवनपथपथिकः स सज्जनः शोभते । अत्र सज्जनग्रामयोः स्फुट:, सहजश्च श्लेषो दृश्यते । इमे कवयः किल शब्दानां स्वामिनः । एतेषां शब्दकौशल्यं दर्शयन्तोऽन्येऽपि श्लोका दृश्यन्ताम् । इमं दोषाकरं बालं, दुर्बलं विगलद्वसुम् । निजसम्भावनेनात्र, पवित्रय महाव्रतिन् ॥ १/१०३ भो महाव्रतधारिन् मुने । इमं बलहीनं धनहीनं दोषपूर्णं बालं स्वागमनेन पवित्रं कुरु । गौणार्थ : भो शङ्कर ! इमं कृशं किरणहीनं बालचन्द्रं स्वजटायां धृत्वा पवित्रं कुरु । अत्र मुनिना सह महादेवस्य कियान् सरलः श्लेषः ? सूक्ष्मेक्षिकामन्तरेण न ज्ञायेत यत् महव्रतिनि मुनौ महादेवोऽप्यन्तर्हितोऽस्ति । TRERERY ॥ ४२ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy