SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् Dr कविर्यद्यपि पाठकानां पुरस्तादसौन्दर्याऽमङ्गलाऽत्याचार-क्लेशादिकमपि बाढं वर्णयति, क्रोध - संहार - सन्तापविनाशादीनां शब्दचित्रमपि प्रकटयति । किन्त्वेतत् सर्वं पर्यन्त आनन्दकलाविकासार्थमेव भवति । अन्यैः काव्यवेदिभिः धनप्राप्तिरपि काव्यप्रयोजनतया प्रोक्ताऽस्ति, किन्तु कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरयो नैवं मन्यन्ते । काव्यपरिशीलन- फलम् काव्यशास्त्रपरिशीलनेन व्यवहार आञ्जस्यम्, बुद्धौ सरलताम्, शास्त्रार्थेषु च स्वातंत्र्यं प्राप्नुवन्ति काव्यरसिका: १२ प्रस्तुतग्रन्थो ग्रन्थकाराश्च व्युत्पत्त्यभ्यासाभ्यां प्रौढा प्रतिभा यदा पराकाष्ठां गच्छति तदा जगदेकं कवि प्राप्नोति । सद्भाग्यत एतादृशां प्रतिभाशालिनां महाकवीनां शतैर्भारतभूमौ जन्म लब्धमस्ति । सिद्धसेनदिवाकरसूरि - धनपाल - हेमचन्द्रसूरि-यशोविजयजीइत्याद्याः कतिपयकवयः प्रसिद्धा एव किन्तु केचिदप्रसिद्धा अपि महाकवयोऽस्यां भूमौ जाताः येषां नामानि वयं न जानीमहे । ११. धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारान्तरेणापीति न काव्यप्रयोजनतयाऽस्माभिरुक्तम् । काव्यानुशासनवृत्ति-१ उपशमफलाद्विद्याबीजात्फलं धनमिच्छतो, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेबीजं न जातु यवाङ्कुरम् । काव्यानुशासन स्वोपज्ञालंकारचूडामणिवृत्तावुध्दृतः श्लोकः । मार्जवं परमं धियाम् । स्वातन्त्र्यमपि तन्त्रेषु, सूते काव्यपरिश्रमः ॥ १२. आञ्जस्यं व्यवहाराणा - , | ERERERERERER SANASA 1188 11
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy