________________
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
काव्यं किमर्थम् ? कविरानन्दाय, यशःप्राप्तये कान्तासम्मितोपदेशाय च काव्यानि कुरुते । उपदेशस्य त्रयः प्रकाराः सन्ति । ते च प्रभुसम्मित-मित्रसम्मित-कान्तासम्मिताख्याः सन्ति । सिद्धान्तोपदेशः प्रभुसम्मितः । तस्मिन् सेवकोपरि स्वामिवत् स्फुटमाजैव क्रियते । तर्कशास्त्रोपदेशः मित्रसम्मितः । तस्मिन् मित्रवत् हेतुसहित उपदेशो दीयते ।। काव्यशास्त्रोपदेशः कान्तासम्मित: कथ्यते । तस्मिन् सिद्धान्तस्य कटूपदेशोऽपि प्रियावत् समाधुर्यो भवति । तेन श्रोतृणामुपदेशभारो निर्वेदाय न भवति । मध्वनुपानसहित कटुकौषधतुल्यः खलु कान्तासम्मितोपदेशः
काव्यस्य द्वितीयं प्रयोजनं यशःप्राप्तिरस्ति । मरणानन्तरमपि कविः कीतिदेहेनाऽमरो भवति । अधुनाऽपि तेषां महाकवीनां | यशो जगति कीर्त्यतेतरां ये बहुकालपूर्वं पञ्चत्वं गताः ।
अस्मिन् जगति द्वावेव नरौ धन्यौ, द्वयोरेव स्थिरं यशः । एकस्तावत् काव्यनिर्माता कविः द्वितीयश्च काव्येषु कीर्तितो महापुरुष:१०
काव्यस्य तृतीयं प्रयोजनम्-आनन्दप्राप्तिरस्ति । काव्य-निर्माणानन्दः कश्चिदपूर्व एव भवति । स ब्रह्मानंदास्वादसोदरो भवति । कविश्च निजानन्देऽन्यमपि सहभागिनं करोति ।
काव्यनिर्माणजातं यशस्तु कवेरेव भवति, किन्तु काव्यास्वादानन्दं सहृदयवाचका अपि प्राप्नुवन्ति । ८. काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । - हेमचन्द्रसूरिकृतकाव्यानुशासनम् १/१ ९. स्वादुकाव्यरसोन्मिश्र, शास्त्रमप्युपयुञ्जते । प्रथमालीढमधवः, पिबन्ति कटुभेषजम् ॥ - भामहकृत काव्यालङ्कारः १/११६ १०. ते वन्द्यास्ते महात्मानः, तेषां लोके स्थिरं यशः । यैर्निबद्धानि काव्यानि, ये वा काव्येषु कीर्तिताः ॥ - भट्ट त्रिविक्रमः
82828282828282828282828282828282888
॥ ४० ॥