SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् FRERERS सहजा प्रतिभाऽपि व्युत्पत्त्यभ्यासाभ्यां संस्कारपूर्णा कर्तव्या भवति २ ३ लौकिक व्यवहार - शास्त्रबोध-काव्यग्रन्थपरिशीलनेन प्राप्ता निपुणता व्युत्पत्तिः कथ्यते । काव्यवेतॄणां शिक्षया पुनः पुनः काव्यग्रन्थेषु प्रवृत्तिश्च 'अभ्यासः' कथ्यते । इत्थं कवित्वं बहूनि वस्तून्यपेक्षते । भूरिवस्तुसमन्वये जाते एकं काव्यं जायते । स्वस्थता, प्रतिभा, अभ्यासः, भक्तिः, विद्वद्वत्कथा, बहुश्रुतता, स्मृतिः, उत्साहः एते अष्टगुणाः कवित्वस्य जनकाः मता: ४ काव्येऽर्थः, पदशुद्धिः, रीति, घटना, नवीनत्वम् - इत्यादिषु विद्यमानेष्वपि रस आवश्यकः । स चेन्न स्यात्तर्हि सर्वमपार्थकं भवति किं बहुना ? एकोऽपि दोषः काव्यदूषणायाऽलम् भवत्येवैकेनाऽपि कुष्ठांशेन विरूपं मुखसौन्दर्यम् । इत्थं नवीनविषयः, ग्रामीणताऽभावः सरलः श्लेषः, स्फुटो रसः, हृदयङ्गमा पदश्रेणिः एतेषां सर्वेषां एकस्थाने समन्वय मुख्य दुर्लभ विद्य २. ३. ४. ५. ६. ७. " - एककाव्यनिर्माणे जायमानं परिश्रमं कविमन्तरेण को ज्ञातुं शक्तः स्यात् ? कथं नाम वन्ध्या स्त्री प्रसूतिपीडामवगच्छेत् ? व्युत्पत्त्यभ्यासाभ्यां (प्रतिभा) संस्कार्या - श्रीहैम काव्यानुशासनम् १ / ४ शक्तिर्निपुणता लोक- शास्त्र काव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास, इति हेतुस्तदुद्भवे ॥ मम्मटकृत काव्यप्रकाशः १/३ स्वास्थ्यं प्रतिभाभ्यासो, भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदार्व्यमनिर्वेदश्च मातरोऽष्टौ कवित्वस्य ॥ अर्थोऽस्ति चेन्न पदशुद्धिरथाऽस्ति सापि, नो रीतिरस्ति यदि सा घटना कुतस्त्या । साप्यस्ति चेन्न नववक्रगतिस्तदैतद्, व्यर्थं विना रसमहो गहनं कवित्वम् ॥ - मंखक ( काश्मीरी पण्डितः ) तदल्पमपि नोपेक्ष्यं, काव्यं दुष्टं कथञ्चन । स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुभंगम् ॥ दण्डिकृत काव्यादर्श: १/७ नवोऽर्थो जातिरग्राम्या, श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥ - बाणभट्टः ASANASRA TREREREA ॥ ३९ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy