________________
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
इदमेव वैशिष्ट्यं कवीनाम् । सामान्य वस्त्वपि कवयः स्ववर्णनशक्त्याऽसामान्यं कुर्वन्ति । नीरसमपि रसपूर्णम्, शुष्कस्थानमपि वृन्दावनम्, शीतर्तुमपि वसन्तं कर्तुं शक्नुवन्ति । कविः किल वसन्तर्तुतुल्यः । वसन्तागमनेन यथा पृथ्वी सौन्दर्यपूर्णा भवति तथैव कवि: यं पदार्थं वर्णयति तं सम्पूर्णतया सौन्दर्यमण्डितं करोति । स स्वीयेन काव्येन दुःखतप्तं मानवगणं दुःखेभ्यो मोचयति । कथितं च केनापि "समस्तममिदं जगद् दुःखव्याकुलमस्ति । अत्र संसारे सर्वमानव-मानसे भग्नानि स्वप्नानि, अपूर्णा मनोरथाः, खण्डीभूताः आशास्तम्भाः, हृदये स्थायं स्थायं दृढीभूताच पीडाः सन्ति । सर्व एव । च जना दुःखाकान्ताः सन्ति । त आनन्दं समीहन्ते । हे कवीश्वर ! त्वं सकृत् स्वर्ग गच्छ, तस्माच्चामृतकुम्भमानय, दुःखाक्रान्तेषु जनेषु च सिञ्चामृतम् ।" कवेः स्वर्गं तस्य कल्पनासृष्टिरस्ति । स ततः तान्यमृतकुम्भसमानि काव्यान्यानयति, यानि वाच्यमानानि सहृदयवाचकान् परममानन्दं ददति । तद्वाचनेन वाचका आनन्दपूर्णा काञ्चिदपूर्वामुच्चविचारमयीं सृष्टिं प्राप्नुवन्ति ।
अहो ! गहनं कवित्वम् !
किन्त्वेतादृशः महाकवयो न निर्मीयन्ते केनापि, ते तु जगति सहजरूपतया जन्म प्राप्नुवन्ति । साहजिक्या च स्वप्रतिभया विश्वे कवयो भवन्ति ।
काव्यानि किल नैव यथाकथञ्चिद् भवन्ति । एतदर्थं काचित् सहजा योग्यताऽऽवश्यका । 'स्वप्रतिभैव प्राथमिकी योग्यताऽस्ति । प्रतिभाशालिमानवानामेव बहिरङ्गाणि कारणानि कार्यकारीणि भवन्ति । बाह्यानि प्रयत्नसहस्राण्यपि प्रतिभाहीनं नरं काव्यसर्जनक्षमं नैव विदधति । न ह्यमृतघटसहस्रेणाऽपि दग्धबीजाद् वृक्षोत्पत्तिः । १. प्रतिभाऽस्य (काव्यस्य) हेतुः । - श्रीहैम काव्यानुशासनम् १/२
Satasa8RR88RSASRURSASRSASRSANASNA
॥३८॥