________________
श्री
शालिभद्र
महाकाव्यम्
FREREAS
किञ्चित्
मरणसमीपस्थेन कविवरेण श्रीबाणभट्टेन चिन्तितम् ममापूर्ण: कादम्बरीनामा ग्रन्थः कथं पूर्णो भविष्यति ? क एतत् कार्यं करिष्यति ? यद्यपि मम द्वावपि सुतौ प्राप्तविद्यौ स्तः, किन्तु सर्वे सविद्याः कवयो न भवन्ति । यतो व्याकरण-काव्य-न्याय-तर्क- विषय ग्रन्थाध्ययनकरणे काव्य-सर्जने च महदन्तरं विद्यते । काव्यसर्जने क्रान्तदृष्टिपूर्णा स्वाभाविकी शक्तिरावश्यका । अहं प्रथमं तावत् परीक्ष्य निश्चिनोमि द्वयोर्मध्ये मम कः पुत्रः कवि र्भूत्वा मम ग्रन्थं पूर्ण करिष्यति ?
सेवातत्परौ द्वावपि पुत्रौ तदानीं पुरः स्थितावेवाभूताम् । गृहाद् बहिश्चैकः काक उपविष्टोऽभूत् । काकं प्रत्यङ्गु कृत्वा पित्रा कथितम् एतद् दृश्यं वर्ण्यताम् ।
ज्येष्ठ पुत्रः सगर्वमुवाच-अस्मिन् किम् ? श्रूयताम् "शुष्को वृक्षस्तिष्ठत्यग्रे तदुपरि तिष्ठत्येकः काकः " एतादृशीं ऋक्षां वाणीमाकर्ण्य पित्रा कर्णौ पिहितौ कथितं च अयि ! पर्याप्तं वर्णनेन ! श्रुतमेव तव सर्वम् ।
ततः पित्रा लघुपुत्रे विलोकिते तेनोक्तम्- "नीरसतरुवरो विलसति पुरतः, तदुपरि विलसति वायस एक:' इदं मधुरं वर्णनं श्रुत्वा पिता प्रसन्नोऽभूत् । यद्यपि द्वयोर्मध्ये कस्यापि कथनं नैवासत्यम्, तथापि लघुपुत्रस्य कथनं काव्यमयं माधुर्यपूर्णमासीत् । पित्रा निर्णीतम् अयमेव पुत्रः मम ग्रन्थं पूर्णं करिष्यति । ततस्तदुपर्येव (मयूरे) कादम्बरीग्रन्थपूर्णीकरणभारं न्यस्य निश्चिन्तो भूत्वा स मृतः ।
ERERERERE
॥ ३७ ॥