SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ शालिभद्र महाकाव्यम् SASRSasa 8282828282828282828282828282 कथितम् । तेषां प्रेरणया मया मनफराचातुर्मासस्थितेन (वि.सं. २०३७, आश्विन शु.२) टीकारचनाऽऽरब्धा । किञ्चिद्रचनानन्तरं तत्कार्य स्थगितं जातम् । तत्पश्चाच्चतुर्पु वर्षेषु व्यतीतेषु जयपुर(राजस्थान)चातुर्मासस्थितेन (वि.सं. २०४१) मया तत्कार्यं पुन: पूर्णतां नीतम्। टीकाया हस्तप्रतिः पूज्यमुनिराजश्री पुण्यपाल-विजयेभ्यः प्रेषिता । तैः क्वापि क्वापि योग्याः शुद्धिवृद्धयः कृताः, काश्चित् सूचना अपि प्रदत्ताः, याः टीकासौन्दर्ये बहूपयोगिन्यो जाताः सन्ति । तदनन्तरं मनफरा-चातुर्मास्यावसरे (वि.सं. २०४५) पण्डितवर्यैः श्रीअमूलखैः सहैतट्टीकायां पुनरपि महत्त्वपूर्णाः शुद्धिवृद्धयः कृताः । पण्डितपादानां व्याकरणज्ञानमस्मिन्नतिसहायकं जातम् । टीकासहितमिदं काव्यं चेत् प्रकाशितं स्यात्तर्हयत्युपयोगि भवेदिति ज्ञात्वा मनफरासंघेनैतत्प्रकाशनकार्यं सहर्ष स्वीकृतम्। सर्वैः मनफरावासिमहानुभावैश्चौदार्यपूर्ण आर्थिक सहयोगः प्रदत्तः । भरूडीआनगरे उपधान-प्रसङ्गे सार्धमास-स्थिरतायां मुद्रणयोग्यप्रति-लेखनावसरे पूज्यगुरुदेवश्रीकलाप्रभविजयैः पूज्य मुनिराजश्रीकल्पतरुविजयैश्च टीकावद् गूर्जरानुवादस्याप्यनिवार्यता ज्ञापिता । तेषां सूचनया तदानीं मया गूर्जरानुवादोऽपि लिखितः । टीकायामनुवादे च मया यथाशक्ति यथामति पूर्णमवधानं दत्तम् । तथापि कुत्रापि चेत् स्यादशुद्धिस्तर्हि तज्ज्ञा ज्ञापयन्तु। अहं उपकृतो भविष्यामि । ऋणस्वीकृति : अनवरतं कृपाधारां वर्षयन्तः करुणारसरत्नाकरा अध्यात्मयोगिनः पूज्यपादा आचार्यदेवाः श्रीमद्विजयकलापूर्णसूरीश्वराः ARRARAUAYA8A828282828282828 ॥४७
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy