________________
टीकाकार प्रशस्तिः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कलाप्रभस्तस्य विनेय धुर्यः, सौभाग्यशाली मुनिवृन्दवर्यः । तच्छिष्यमुख्यो मुनिमुक्तिचन्द्रः, मुक्तिक्रियामग्नमना अतन्द्रः ॥ ५ ॥
(उपजाति) मुनिना मुनिचन्द्रेण, तस्य शिष्याणुना किल । मुनिश्री पुण्यपालस्य, प्राप्य प्रकृष्टप्रेरणाम् ॥ ६ ॥ टीका विरचितेयं श्री मनफरापुरे वरे । यत्रोपलब्धजन्मानो, बहवः साधवोऽभवन् ॥ ७ ॥ पूर्वं श्रीमत्तपागच्छे, विजयप्रभसूरयः । श्रीजीतविजयाद्याश्च, रत्नान्यस्य पुरस्य हि ॥ ८ ॥ प्रारब्धा तत्र टीकेयं, जयपुरे च पूर्णताम् । प्राप्ता श्रीवैक्रमे वर्षे, विधु-वेद-ख-लोचने ॥ ९ ॥
(वि.सं. २०४१) श्रीमन्मनफरा-पाठ-शालायाः पाठकेन च । विदुषाऽमूलखेनैषा, संशोधिताऽस्ति यत्नतः ॥ १० ॥ तथापि मतिदोषाद् वा, मुद्रणदोषतोऽथवा । याः काश्चित् क्षतय: स्युस्ताः, बुधैः शोध्या: क्षमाधनैः ॥ ११ ॥ नुर्गच्छतो हि क्षतयो भवन्ति, प्रमादतो वा मतिमान्द्यतो वा । दौर्जन्यतस्तत्र हसन्ति केचित्, सौजन्यतः कोऽपि समादधाति ।। १२ ।।
(उपजाति) यावज्जगति सूर्येन्दू यावच्च जैनशासनम् । तावज्जीयादिदं काव्यं, वाच्यमानं विचक्षणैः ॥ १३ ॥ इति समाप्तं सगूर्जरानुवाद-टीकाविभूषितं श्रीशालिभद्रमहाकाव्यम् ॥
॥ शिवमस्तु सर्व जगतः ॥
82828282828282828282828282828282888
॥३४१॥