________________
| टीकाकार - प्रशस्तिः ।
टीकाकार प्रशस्तिः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कच्छोद्धारकरो मुनिः समभवत्, पद्माभिद्यः श्रीतपा-गच्छे स्वच्छगुणे सरोवरसमे, य: पद्मशोभां गतः । तच्छिष्यो मुनिपुङ्गवो मनफरा-जातश्च जीताभिधः, यस्याऽद्यापि प्रकीर्त्यते भुवि चमत्कारान्वितं जीवितम् ॥ १ ॥
(शार्दूल.) तच्छिष्यो गुरुपादपद्ममधुलिट्, श्रीहीरनामाऽभवत्, तत्पट्टे कनकाख्यसूरिवृषभो, वात्सल्यवारांनिधिः । कारुण्यं विनयः क्षमा श्रुतरतिर्गम्भीरता धीरता, यस्मिन् भूरिगुणाः स्थिता गुरुवरे, रत्नानि वाधौं यथा ॥ २ ॥
(शार्दूल.) तदीये पट्टेऽति-स्मृतिबल-युतः संयमरतः, मुनीन्द्रो देवेन्द्रो मुखविजितचन्द्रोऽभवदिह । गुरुभ्राता तस्य प्रखरचरणासेवनपरः, महाज्योतिर्वेत्ता जगति विदितः कञ्चनमुनिः ॥ ३ ॥
(शिखरिणी) तदीयः सच्छिष्यः प्रशमकरुणापूर्णहृदयः, महायोगी ध्यानी प्रभुचरणलीनश्च सततम् । यशस्वी वर्चस्वी यतिततिपतिः सम्प्रति भुवि, कलापूर्णाचार्यों जनहृदय-धार्यो विजयते ॥ ४ ॥
(शिखरिणी)
828282828282828282828282828282828282
॥३४०॥