________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
इयं कथा वृद्धकुमारिकेव, सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादात्, बभूव पाणिग्रहणस्य योग्या ॥ १५३ ॥
वृद्धकुमारिका इव इयं कथा सदूषणा काव्यदोषसहिता, वृद्धा पक्षे-वृद्धत्वादिदोषयुता । भूषणवर्जिताकाव्यालङ्काररहिता-पक्षे आभूषणहीना । आसीत् । परं' किन्तु । 'प्रद्युम्नदेवस्य' तन्नामकमुनेः, पक्षे-कामदेवस्य । प्रसादात्कृपातः । पाणिग्रहणस्य पाणौ हस्ते ग्रहणस्य, पक्षे-विवाहस्य । योग्या-उचिता । बभूव-जाता ॥ १५३ ॥
प्रभाचन्द्रेण गणिना, गुणगौरवशालिना । अलेखि प्रथमादर्श, भक्तिव्यक्तिनिदर्शनम् ॥ १५४ ॥
गुणगौरवशालिना प्रभाचन्द्रेण गणिना प्रथमादर्श-प्रथमप्रतौ इदं चरितं अलेखि-लिखितम् । इदं किल भक्तिव्यक्तिनिदर्शनं भक्तिप्रकाशनदृष्टान्तः ॥ १५४ ॥
यावद्दानदिवाकरः शुभदिन-श्रीसौविदल्लोऽर्हतः, तीर्थे पूर्वगिरावुदेति तिमिर-ध्वंसी विवेकारुणः । स्फीता तावदियं यतिक्षितिपतेः श्रीशालिभद्रप्रभोः, बुद्धैर्बोधकरैः सुमङ्गलकला-भोगावली कीर्त्यताम् ॥१५५ ॥
(शार्दूल.) यावद् दानदिवाकर:-दानसूर्यः, पूर्वगिरौ-उदयाचले, अर्हत:-जिनस्य, तीर्थे-शासने उदेति । कथम्भूत: स: ? शुभदिनश्रीसौविदल्ल:-शुभदिनस्य श्रियाः-शोभाया: रक्षणे सौविदल्लः अन्तःपुर-स्त्रीरक्षकः । तिमिरध्वंसी-तमोनाशी, तमः पापं अन्धकास्च । विवेकारुणः-विवेकः अरुण:-सूर्यसारथिः यस्य सः । तावत् यतिक्षितिपते:-मुनिमहीपतेः,
satasa8RSR88RSONASRSASASASRSANASNA
॥३३७॥