________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ईशानाः किमु गङ्गयेव महिता गौर्या सुकीर्त्या च ये, श्रीसोमप्रभसूरयः सुमनसां मूर्धन्यतां ते दधुः ।। १५१ ॥
(शार्दूल.) 'यत्कण्ठपीठीमठी' यत्कण्ठपीठी-श्रीसोमप्रभसूरिकण्ठपीठिका यस्यां सा मठी-मठः ताम् । किल: निश्चये। भारतीसरस्वती श्रितवती, इमे सूरयः किं ब्रह्माणः प्रजापतयः ? सरस्वती ब्रह्मपुत्रीति ख्याता । यदंहिकमलासेवासु-यत्पादपद्मयोः आसेवासु-पर्युपासनासु, हेवाकिनी तत्परा, कमला-लक्ष्मीः, तस्मात् किं इमे सोमप्रभसूरयः गोविन्दाः-नारायणाः, लक्ष्मी: विष्णुपत्नीत्वेन ख्याता । ये च गङ्गया इव गौर्या-श्वेतया, ईशानपक्षे-पार्वत्या सुकीर्त्या महिता:-पूजिताः तत् किमु ईशाना: महादेवाः? ते श्री सोमप्रभसूरयः सुमनसां-देवानां पण्डितानां च, मूर्धन्यतां-मुख्यता, दधुः धारयन्ति स्म । ब्रह्मविष्णुमहेशा: अपि देवेषु मूर्धन्यतां धारयन्ति इति प्रसिद्धिः । ॥ १५१ ॥
तत्पट्टाचलचूलिका विजयते, दम्भाख्यजम्भाजित-श्रीः श्रीमान् विबुधप्रभः प्रभुरसौ, सुज्ञानलीनाशयः। तस्य प्राप्य निदेशलेशमनिशं, गीर्देवताध्यानतः, चक्रे धर्मकुमारसाधुरमलां श्रीशालिलीलाकथाम् ॥ १५२ ॥
तत्पट्टाचलचूलिका-तत्पट्टादिशिखरम्, 'तत्पट्टे किल चूलिका' इत्यपि पाठ: । दम्भाख्यजम्भाजितश्री:-दम्भाख्यः दम्भनामा जम्भदैत्यः तेन अजिता श्री: यस्य सः । सुज्ञानलीनाशयः-सुज्ञाने लीन: आशयः भावः यस्य सः, श्रीमान् प्रभुः असौ विबुधप्रभः तन्नामा गुरुः, पक्षे इन्द्रः, विजयते । तस्य निदेशलेशं-आज्ञांशम्, प्राप्य अनिशं-सदा गीर्देवताध्यानतः सरस्वतीध्यानतः, धर्मकुमारसाधुः धर्मकुमारनामा मुनिः, अमला-उज्ज्वलाम्, श्री शालिलीलाकथां चक्रे-कृतवान् ॥ १५२ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥३३६ ॥