________________
पक्रमः
शालिभद्र महाकाव्यम्
SASASAsa 8282828282828282828282828282
शुभं श्रीशालिचरितं दानधर्मेण-मासोपवासिनः यतेः क्षीरदानधर्मः तेन । ग्रन्थपक्षे-प्रस्तुतग्रन्थका धर्मकुमारपण्डितेन। प्रस्तुतं-प्रारब्धं, 'श्रीदानधर्मकल्पद्रुः' इतः प्रारब्धम् । 'श्रीविबुधप्रभेण' श्रीविबुधेषु देवेषु प्रभा यस्य तेन (गोभद्रदेवेन)। पक्षे एतद्ग्रन्थोपदेशकविबुधप्रभसूरिणा । 'गोभद्रेण' शालिपित्रा । पक्षे-गवि-भुवि भद्रेण मङ्गलेन, अथवा गौ: वाणी तया भद्रेण (विबुधप्रभसूरिणा) । तुश्चकारार्थः । 'विशेषितं' विशिष्टतां गतम् ॥ १४८ ॥ 'श्रीमद्भद्रेश्वरे' कच्छदेशस्थिते भद्रेश्वर इति नाम्ना प्रसिद्ध तीर्थे । 'वीरपादोपान्ते' तीर्थपतिश्रीमहावीरदेवचरणान्तिके । 'समर्थितं' विरचितम् । इदं चरितम् । 'सकर्णकर्णानां' प्रवीणजनकर्णानाम् । 'अमृतप्रातराशवत्' अमृतमयप्रातर्भोजनवत् । 'भूयात्' भवतु ॥ १४९ ॥
श्रीनागेन्द्रमुनीन्द्रवंशविपुल-क्षीरार्णवैरावणाः, श्रीहेमप्रभसूरयः प्रसृमरश्रीकीर्तिसाराविणाः । तत्पट्टे प्रभुधर्मघोषगुरवो रेजुः स्फुरद्गौरवाः, श्रीसोमप्रभसूरयस्तरणयस्ततट्टपूर्वाचले ॥ १५० ॥ (शार्दूल.)
'श्रीनागेन्द्रमुनीन्द्रवंशविपुलक्षीरार्णवैरावणाः' श्रीनागेन्द्रमुनीन्द्रवंश: श्रीनागेन्द्र इति नाम्ना ख्यात: मुनीन्द्रवंशः मुनीश्वराणां गच्छः सः एव विपुलक्षीरार्णवः-विशालक्षीराब्धिः तस्मिन् ऐरावणा: ऐरावणहस्तितुल्याः । 'प्रसृमरश्रीकीर्तिसांराविणाः' प्रसृमराभ्यां विस्तरणशीलाभ्यां श्री-कीर्तिभ्यां सांराविणं-अभिव्याप्तः ध्वनिः येषां ते । अभिव्याप्तौ ।५।३।९०॥ इत्यनेन सांराविणम् । श्रीहेमप्रभसूरयः अभवन् । 'तत्पट्टे' तेषां पट्टे स्फुरदगौरवाः प्रभुधर्मघोषगुरवः रेजुः राजन्ते स्म । 'तत्पट्टपूर्वाचले' तेषां पट्टः एव पूर्वाचल:-उदयाचलः तस्मिन् तरणयः-सूर्याः श्री सोमप्रभसूरयः रेजुः ॥ १५० ॥
ब्रह्माणः किल भारती श्रितवती यत्कण्ठपीठीमठी, गोविंदा: कमला यदंहिकमलासेवासु हेवाकिनी ।
satasa8RSR88RSONASRSASASASRSANASNA
॥३३५ ॥