________________
पक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
श्रीशालिभद्रप्रभोः बोधकरैः-बोधकैः, पक्ष-वैतालिकैः-स्तुतिव्रतैः । 'वैतालिका बोधकराः' इति हैम्याम् । बुद्धैः-पण्डितैः, स्फीता विस्तृता इयं सुमङ्गलकला भोगावली-सुमङ्गला: कला: त्यागरूपा: कला: यस्यां सा भोगानां आवली श्रेणिः, पक्षे-भोगावली नामकः ग्रन्थः, वैतालिकाः तं पठन्ति, यत् श्री हैम्याम्-'नग्नःस्तुतिव्रतस्तस्य, ग्रन्थो भोगावली भवेत्।" कीर्त्यतां गीयतां पठ्यताम् ॥ १५५ ॥
श्री शालिचरिते धर्म-कुमार सुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, सप्तमः प्रक्रमोऽभवत् ॥ १५६ ॥ अयं दानमहाधर्मः, कल्पद्रुम इवाद्भुतः । भूयात् समस्तभव्यानां, मनोवाञ्छितसिद्धये ॥ १५७ ॥ स्पष्टार्थः । ब्राह्मी निर्मलशब्दसिद्धिकलिता, मन्ये पवित्राशया, लक्ष्मीर्वा पुरुषोत्तमप्रियतमा, नानार्थजातप्रसूः । गौरी मङ्गलशालिभद्रचरिता सर्वप्रियम्भावुका, जीयाद्धर्मकुमारपण्डितमति विस्तारिधर्मोन्नतिः ॥ १५८ ॥
धर्मकुमारपण्डितमतिः जीयात् । कीदृशी सा ? 'निर्मलशब्दसिद्धिकलिता'-निर्मलाभिः व्याकरणदोषरहिताभिः शब्दसिद्धिभिः कलिता-भूषिता, पवित्राशया-शुचिभावा, सरस्वतीपक्षे-पवित्रहृदया, ब्राह्मी सरस्वती । नानार्थद्रव्यप्रसू:विविधार्थसमूहजनयित्री, लक्ष्मीपक्षे-अनेकधनसमूहजनयित्री, पुरुषोत्तमप्रियतमा-उत्तमपुरुषाणां प्रियतमा अतीव प्रिया, पक्षे विष्णुपत्नी लक्ष्मीः । वा विकल्पे । मङ्गलशालिभद्रचरिता-मङ्गलं शालिभद्रस्य चरितं यस्याः सा, पक्षे-मङ्गले: शालते मङ्गलशाली भद्रः-वृषभ: नन्दी यस्य सः शम्भुः तेन सहचरिता चलिता (गौरी), सर्वप्रियम्भावुका-सर्वजनानां प्रिया
satasa8RSR88RSONASRSASASASRSANASNA
॥३३८ ॥