________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आत्रायस्त्रिंशतं वार्धीन्-त्रयस्त्रिंशतं सागरोपमान् यावत्, सौख्याम्भोधिगयोरपि-सुखसमुद्रगतयोरपि, एतयो:-शालिधन्ययोः पुनः अभिष्वङ्गतरङ्गा-आसक्तिकल्लोलाः, न अभ्याययुः-न अभिगच्छन्ति स्म । समुद्रस्थितावपि तरङ्गस्पर्शाभावः आश्चर्य व्यनक्ति ॥ १४१ ॥
व्यामोहेन महाहिमेन मथितं, नो मायया लूकया, कोपेन प्रबलातपेन न मदै रोगाभियोगैरिव, पश्चात्तापभरैविहङ्गनिकरै र्नासूयया वात्यया, सौख्यं सौमनसं वनं तदनयो र्लोकोत्तरं कीर्त्यते ॥ १४२ ॥
व्यामोहेन अज्ञानेन, महाहिमेन-महातुहिनेन, न मथितं न नष्टम्, नो लूकया-न उष्णवायुना ('लू' इति भाषायाम्) मायया; न प्रबलेन आतपेन कोपेन; न रोगाभियोगैरिव न रोगाणां अभियोगै: उद्यमैरिव मदैः मानैः, न पश्चात्तापभरैः विहङ्गनिकरैः-पक्षिसमूहै: । न असूयया-न ईय॑या, वात्यया-वायुसमूहेन मथितमिति सर्वत्र सम्बध्यते । तत्-तस्मात् अनयो:शालिधन्ययोः सौख्यं, सौमनसं-सुमनसां देवानामिदं सौमनसं तन्नामकं मेरस्थितवनम्, वनं लोकोत्तर-अलौकिकं कीर्त्यतेकथ्यते ॥ १४२॥
ब्रह्मज्योतिरिव स्वयं समुदितं, नोपाधिसंसाधितं, पीवज्जीवमिवोपजीव्यमिह नो, नासारसंज्ञादिभिः । निष्प्रत्यूहसमूहमुज्ज्वलकल-श्रीकेवलालोकवद्, द्वैतातीतमहो ! महोदयसखं तावन्वभूतां सुखम् ॥ १४३॥
ब्रह्मज्योतिः इव-परमतेजः इव, स्वयं समुदितं प्रकटितम्, न उपाधिसंसाधितं-उपाधिभि: साधनैः न संसाधितंप्राप्तम्, पीवज्जीवमिव-पीवत्-पुष्टीभवत् जीव: जीवनं तदिव, इह-संसारे, असारसंज्ञादिभिः आहार-भयादिसंज्ञाभिः, न उपजीव्यं-न अपेक्ष्यमाणम्, निष्प्रत्यूहसमूहं निर्विघ्न समूहम्, उज्ज्वलकलश्रीकेवलालोकवत् उज्ज्वल:-अवदातः कल:
satasa8RSR88RSONASRSASASASRSANASNA
॥३३२॥