________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
मनोज्ञः श्रीकेवलालोकः श्रीकैव्यल्यप्रकाश: तद्वत्, द्वैतातीतं-अद्वैतं एकम्, अहो ! महोदयसखं-महोदय: मोक्षः एव सखा मित्रं यस्य तत्, सुखं तौ शालिधन्यौ देवी, अन्वभूतां-अनुभवतः स्म ॥ १४३ ॥
दुष्कर्म ताभ्यां तु पुरा विदेहे, जन्माधिगम्याथ पुराविदेहे। निरन्तरानन्दसदाविदेहे, प्रयास्यतस्तौ हिपदे विदेहे ॥१४४ ॥
ताभ्यां शालिधन्यदेवाभ्याम्, दुष्कर्म दुरितम्, तुः चकारार्थः, पुरा-पूर्वजन्मनि-शालिधन्य जन्मनि, विदेहे विशेषेण दग्धम् । अथ पुराविदिहे-पूर्वमहाविदेहे क्षेत्रे, जन्म अधिगम्य-प्राप्य । निरन्तरानन्दसदाविदेहे-निरन्तरेण-निबिडेन आनन्देन सदा विदेहः उपचयः (दिहीक् लेपे) यस्मिन् तस्मिन्, विदेहे देहरहिते, पदे-स्थाने मोक्षे इत्यर्थः, तौ प्रयास्यत:-गमिष्यतः ॥ १४४ ॥
अनुत्तरंदानमुत्तरश्रियो-ऽप्यनुत्तरंमानमनुत्तरंयशः । श्रीशालिभद्रस्य गुणा अनुत्तरा, अनुत्तरं धैर्यमनुत्तरं पदम् ।। १४५ ॥
श्रीशालिभद्रस्य दानं अनुत्तरम्, बाल्यभावेऽपि प्रथमवारमेव प्राप्तस्याऽपि परमान्नस्य मुनये दानात् । अनुत्तरश्रियः शालिभद्रजन्मनि नित्यं दिव्यर्द्धिभोगात् । मानं अनुत्तरम्, राजालिङ्गनेऽपि अपमानचिन्तनात् । यशः अनुत्तरम्, श्रीमहावीरस्वामिगौतमस्वामि-श्रेणिकाभयादिभि: महानुभावै: गीयमानत्वात् । गुणाः अनुत्तराः स्वगृहे सन्मानाऽभावेऽपि समताभङ्गाऽभावात् । धैर्य अनुत्तरम्, अनशन-काले तप्तशिलायामपि अखण्डधैर्यात् तदानीं पत्नी-मात्रादिषु ममतात्यागाद् वा । अनुत्तरं पदम्, तन्नामकं स्वर्गस्थानमनुत्तरविमानम् । अनुत्तरपदं मुक्तिर्वा । वंशस्थवृत्तमिदम्, तल्लक्षणं चेदम्-'जतौ तु वंशस्थमुदीरितं जरौ" ॥ १४५ ॥
जयतु शम समुद्रः, प्राप्तमौनीन्द्रमुद्रः, कलिकलुषदरिद्रस्त्यक्तसम्मोहनिद्रः ।। मदनदमनरुद्रः, सर्वतो भाविभद्रः, शिवपथरथभद्रः, श्रीमुनिः शालिभद्रः ॥ १४६ ॥
ARRARAUAYA8A82828282828282888
॥३३३॥