________________
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
ध्रुवध्यानप्रमाणत:-निश्चल ध्यानप्रमाणतः, पोतपक्षे ध्रुवतारकावधानप्रमाणतः, नाविकाः किल दिग्विनिर्णयार्थं ध्रुवतारकं विलोकन्ते, भावनित्यगतेः भावानां-भावनानां नित्यं गति: यस्मिन् तस्मात् वेगात्-रयात् ॥ १३५ ॥ 'सुदुस्तरं' अतिदुःखेन तीर्यते एवंविधम्, प्रतिज्ञाभरनीरधि-प्रतिज्ञाभरः एव नीरधिः समुद्रः तम्, अतिक्रम्य-उल्लङ्घ्य । स्वामिसेवाकदर्थितान्इन्द्रादिस्वामिसेवाभिः कर्थिता विडम्बितान्, अल्पश्रियः-अल्पा श्रीः समृद्धिः यत्र तान्, कल्पान् -सौधर्मादिद्वादशदेवलोकान् अतीत्य-अतिक्रम्य ॥ १३६ ॥ अहो-आश्चर्ये, अभव्यैरपि जीवैः सम्भाव्यवैभवानुभवान्-सम्भाव्य: वैभवस्य अनुभवः यत्र तान्, अधिकारानिवकारासु गुप्तिषु इति अधिकाराः तानिव, नवग्रैवेयकानपि-लोकपुरुषे ग्रीवास्थानीयान् नव देवलोकान् उत्सृज्य-परित्यज्य ॥ १३७ ।। 'सिद्धेः' मुक्तिनगरस्य, शाखापुरे-उपरे किंवा सिद्धे वेशविश्रामशाखिनि-प्रवेशे विश्रामशाखी-विश्रान्तिवृक्षः तत्र, अथवा शाश्वती मुक्तिं लक्ष्मी विवोढुं-परिणेतुं जन्यावासे जनी वधूः तस्याः आवासे, विवाहसमये यत्र स्थीयते, जन्यानां वा वधूसुहृदानां आवासे, अङ्गणे ॥ १३८ ॥ अनुत्तरसुखागारे-अनुत्तरस्य अनुपमस्य सुखस्य अगारे-गृहे, पञ्चानुत्तरोत्तरे पञ्चानां अनुत्तराणां विमानानां उत्तरे-उत्तमे, सर्वार्थसिद्धे महाविमाने-तन्नामके पञ्चमे विमाने । तौ शालिधन्यौ, सुरौत्तमौ-देवश्रेष्ठौ, अभूताम् ॥ १३९ ॥ ।
नात्रान्यस्वामिनामापि, तदस्थीयतामिति । शालिमस्थापयलक्ष्मीनिरुत्तरमनुत्तरा ॥ १४० ॥
अत्र-विमाने अन्यस्वामिनाम अपि न अस्ति तत्-तस्मात् अवस्थीयां-अवस्थानं क्रियताम्-इति अनुत्तरा लक्ष्मी:अनुत्तरविमानश्रीः, निरुत्तरं-अनुत्तरं शालि-मुनि अस्थापयत् स्थापितवती ॥ १४० ॥
आत्रायस्त्रिंशतं वार्धीन्, सौख्याम्भोधिगयोरपि । नाभ्याययुरभिष्वङ्गतरङ्गाः पुनरेतयोः ॥ १४१ ॥
828282828282828282828282828282828282
॥३३१॥