________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कल्यकल्याणरूपौ च, ज्ञानश्रीनूपुराविव । निष्प्रकम्पौ शान्तिदान्त्योः, क्रीडाभूमीधराविव ॥ १३३ ॥ धन्यः श्रीशालिभद्रश्च, मुनिवृन्दारको ततः । परीषहोपसर्गादि-वैरिवृन्दविदारकौ ॥ १३४ ॥ गुरुगौतमनिर्याम, संन्यासं पोतमास्थितौ । भावनित्यगते।गाद्, ध्रुवध्यानप्रमाणत: ॥ १३५ ॥ सुदुस्तरमतिक्रम्य, प्रतिज्ञाभरनीरधिम् । कल्पानल्पश्रियोऽतीत्य, स्वामिसेवाकर्थितान् ॥ १३६ ॥ अभव्यैरपि सम्भाव्यवैभवानुभवानहो । अधिकारानिवोत्सृज्य, नवग्रैवेयकानपि ॥ १३७ ॥ सिद्धेः शाखापुरे किंवा, वेशविश्रामशाखिनि । विवोढुं शाश्वती लक्ष्मी, जन्यावासेऽथवाऽङ्गणे ॥ १३८ ॥ अनुत्तरसुखागारे, तौ पञ्चानुत्तरोत्तरे। महाविमाने सर्वार्थसिद्धेऽभूतां सुरोत्तमौ ॥१३९ ॥(अष्टभिः कुलकम् )
अथ पादपोपगमनानशनस्थौ शालिधन्यौ वर्णयति 'तप:श्रीकुण्डलौ इव' तप:श्रियाः कुण्डलौ-कर्णकुण्डलौ इव । 'व्यक्तं' स्पष्टम् । 'मुक्तामयौ', मुक्ता:-त्यक्ताः आमया: भावरोगा: याभ्यां तौ । कुण्डलपक्षे-मुक्ताफलनिर्मितौ । युक्तौउचितौ । पक्षे-संयुक्तौ । 'वनकर्णिकासारौ' वज्ररत्नस्य कर्णिका एव सारभूता ययोः तौ, वीर्यश्रीकङ्कणौ इव-वीर्यश्रियाः कङ्कणौ-वलयौ इव ॥ १३२ ॥ ज्ञानश्रीनूपुरौ इव, कल्यकल्याणरूपौ-सुन्दरमङ्गलरूपौ, नूपुरपक्षे-शुद्धसुवर्णभूतौ । 'शान्तिदान्त्योः' शान्तिदान्तिसुन्दर्यो: निष्पकम्पो-निश्चलौ, क्रीडाभूमीधरौ इव-क्रीडापर्वतौ इव ॥ १३३ ॥ ततः धन्यः श्रीशालिभद्रश्च मुनिवृन्दारको-मुनिमुख्यौ, परीषहोपसर्गादिवैरिवृन्दविदारकौ ॥ १३४ ॥ 'गुरुगौतमनिर्यामं' गुरुः गौतम निर्यामः निर्यामक: पोतपक्षे-कर्णधारः यस्य तम्, संन्यासं-संयमम् पोतं-प्रवहणम् आस्थितौ-आश्रितौ ।
Satasa8RR88RSASRURSASRSASRSASASNA
॥३३०॥