________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
हे पारमार्थिकपान्थ परमपदप्रवासिन् ! ते-तव पन्थान: मार्गाः शिवाः कल्याणाः सन्तु । स्वयंवरा साध्यसिद्धिः लक्ष्यसिद्धिः मुक्तिः, निष्प्रत्यूह-निर्विघ्नं समभ्येतु समागच्छतु ।। १२७ ॥
युवां संसारपारीणौ, भूयास्तामस्तविस्तरौ । शाश्वतश्रीपरीरम्भ-सुभगम्भावुकस्थिती ॥ १२८ ॥
हे शालिधन्यौ ! युवां संसारपारीणी-भवपारङ्गतौ, अस्तविस्तरौ नष्टसंसारविस्तरौ, शाश्वतश्रीपरीरम्भसुभगम्भावुकस्थिती शाश्वतश्रिया-मुक्तिलक्ष्म्याः, परीरम्भे आलिङ्गने, सुभगम्भावुका सौभाग्यपूर्णा स्थिति: ययोः तौ, भूयास्तां भवताम् ॥ १२८ ॥
भद्रेत्याशास्य रुदती, स्वं च सन्धीरयन्त्यपि । शरद्यौरिव वर्षन्ती, क्वापि क्वापि महोज्ज्वला ॥ १२९ ॥ ततोऽभयकुमारेण, धैर्येणेवावलम्बिता । समं कुटुम्बनिर्वाहावष्टम्भेनेव भूभृता ॥ १३० ॥ परिष्कृता वधूटीभिः, पुण्यप्रकृतिभिर्यथा । नगरं भवितव्यस्य, नियोगमिव साऽविशत् ॥१३१ ॥ (विशेषकम् )
इति आशास्य-आशीर्वादं दत्वा रुदती भद्रा स्वं-आत्मानं, सन्धीरयन्ती अपि-आश्वासयन्ती अपि, शरद्द्यौरिव शरदाकाशमिव, महोज्ज्वला, क्वापि-क्वापि शरद्वत्, वर्षन्ती-अश्रुभिः ॥ १२९ ॥ ततः धैर्येण इव अभयकमारेण अवलम्भिता-अवष्टम्भिता, कुटुम्बनिर्वाहावष्टम्भेन इव-कुटुम्ब-निर्वाहे अवष्टम्भेन आधारभूतेन इव, भूभृता श्रेणिकनपेण सम-सार्धम् ॥ १३० ॥ पुण्यप्रकृतिभि: यथा-इव, वधूटीभिः-पुत्रवधूभिः, परिष्कृता-मण्डिता, भवितव्यस्य-भाग्यस्य, नियोगमिव शासनमिव, सा-भद्रा, नगरं-राजगृहम्, अविशत-प्रविष्टा ॥ १३१ ।।
धन्य-शालिभद्रयोः सर्वार्थसिद्धविमानगमनम्व्यक्तं मुक्तामयौ युक्तौ, तप:श्रीकुण्डलाविव । तौ वज्रकर्णिकासारी, वीर्यश्रीकङ्कणाविव ॥ १३२ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३२९॥