________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
श्रीश्रेणिकवचोभिस्तैर्भद्रा निन्ये रसान्तरम् । गुरूपदेशैः सद्भूतैश्चित्तवृत्तरिवाधिकम् ॥ १२३ ॥
तैः श्रीश्रेणिकवचोभिः भद्रा रसान्तरं-अन्यरसं, करुणरसात् शान्तरसम्, निन्ये-नीता, कैरिव ? सद्भूतैः-सत्यैः, गुरूपदेशः इव चित्तवृत्तिः इव अधिकं-उच्चस्थानं नीयते ।। १२३ ॥
भद्रा शोकं पराभूय, समाश्वास्य जनीजनम् । आशीर्वादैः सुधास्वादैः, नन्दयामास नन्दनम् ॥ १२४ ॥
भद्रा शोकं पराभूय-निराकृत्य, जनीजन-वधूजनं समाश्वास्य, सुधास्वादै:-अमृतमधुरैः आशीर्वादैः नन्दनंशालिमुनि नन्दयामास-नन्दयति स्म ॥ १२४ ॥
भद्रायाः आशीर्वादाः । जय त्रिजगतीवीर !, जय वीरावतंसक ! । जय वीरविभोः शिष्य !, जय वीरपथाध्वग ! ॥ १२५ ॥ स्पष्टार्थः । वीरावतंसक-वीरमुख्य ! । वीरपथाध्वग-वीरमार्गप्रवासिन् ॥ १२५ ॥ मृत्तिकेव सुतीर्थस्य, वन्द्याऽहं ते प्रसादतः । स्मरणीया जनानां तु, वधूट्यो वनवीथिवत् ॥ १२६ ॥
हे पुत्रमुने ! ते-तव प्रसादतः-कृपात: अहं सुतीर्थस्य मृत्तिका इव वन्द्या जाता। वनवीथिवत् सुतीर्थस्य वनराजिवत्, जनानां तु वधूट्यः-पुत्रवध्वः स्मरणीयाः जाताः ॥ १२६ ॥
शिवास्ते सन्तु पन्थानः, पारमार्थिकपान्थ ! हे । निष्प्रत्यूह समभ्येतु, साध्यसिद्धिः स्वयंवरा ॥ १२७ ॥
82828282828282828282828282828282888
॥३२८॥