________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सीमा सुकृतिनां चूला, भोगसौभाग्यभागिनाम् । चूडामणिर्मुनीन्द्राणामहङ्कारवतामपि ॥ ११८ ॥ तेन प्रारम्भनिर्वाहधौरेयेण सुतेन ते । पतिव्रताव्रतं तीर्थं, प्रभावेणेव कीर्तितम् ॥ ११९ ॥
सुकृतिनां-पुण्यवतां सीमा-मर्यादा, भाग्यसौभाग्यभागिनां चूला-शिखा, अहङ्कारवतामपि-ज्ञानादौ गर्वभाजामपि मुनीन्द्राणां चूडामणि:-शिरोरत्नम् ॥ ११८ ॥ तेन ते-तव, प्रारम्भनिर्वाहधौरेयेण-प्रारम्भस्य निर्वाहे-पारगमने धुर्येण-शक्तेन, सुतेन पुत्रेण-तव पतिव्रताव्रतं कीर्तितं-भुवि स्तुतम् । किमिव ? प्रभावेण-महिम्ना तीर्थमिव कीर्त्यते-इति भद्रां प्रति श्रेणिकोक्तिः ॥ ११९ ॥
स्त्रीषु हाटकपट्टस्ते, भालपट्टे निवेश्यताम् । सूता सिंहीव या मोहकुम्भिकण्ठीरवं सुतम् ॥ १२० ॥
या सिंही इव, मोहकुम्भिकण्ठीरवं-मोहमतङ्गजमारणे मृगेन्द्रतुल्यम्, सुतं-पुत्रम्, सूता-प्रसूता, तस्याः ते-तव भालपट्टे-ललाटदेशे, स्त्रीषु हाटकपट्टः सुवर्णपट्टः निवेश्यतां-स्थाप्यताम् ॥ १२० ॥
तद् वृथा मा कृथाः शोकं, भद्रे वीरप्रसूरसि । दृढं परिकरं बद्ध्वा, वधूभिः परिवारिता ॥ १२१ ॥ धैर्यप्रोत्साहनावाक्यै मधुरैः सलिलैरिव । महासमरसंरम्भे, सम्प्रीणय निजाङ्गजम् ॥ १२२ ॥
तत्-तस्मात् हे भद्रे ! वृथा शोकं मा कृथाः मा कुरु । त्वं वीरप्रसूः-वीरमाता असि । तत: दृढं-प्रौढं परिकरंपरिवारं बद्ध्वा -कृत्वा, वधूभिः-पुत्रवधूभिः परिवारिता-परिवेष्टिता त्वम् ।। १२१ ॥ महासमरसंरम्भे-रम्भे-हे रम्भातुल्ये महासमरसं मुनिम्, युद्धपक्षे-महासमरस्य-महासङ्ग्रामस्य संरम्भे-आवेशे । निजाङ्गजं-स्वपुत्रम्, सलिलैरिव-जलैखि, मधुरैः धैर्यप्रोत्साहनावाक्यैः-धैर्यस्य प्रोत्साहनाकारकैः वाक्यैः वचनैः, सम्प्रीणय-रञ्जय ॥ १२२ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥३२७॥