________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
गुणैस्त्वं गणनीयाऽसि, माननीयाऽसि मानिनाम् । वन्द्यानां वन्दनीयाऽसि, महनीया महात्मनाम् ॥ ११४ ।। स्पष्टार्थः ॥ ११४ ॥ नन्द्यास्त्वं नन्दनोर्वीव, पारिजाततरुः सुतः । यस्यां पश्यावतीर्णोऽयं, वरिवस्यः सुरैरपि ॥ ११५ ॥
नन्दनोर्वीव-नन्दनवनपृथ्वी इव, त्वं नन्द्या:-आनन्दं लभस्व, यस्यां-नन्दनोाम्, सुरैरपि वरिवस्यः-सेव्यः, पारिजाततरु:-कल्पवृक्षविशेषः, अयं सुतः-शालिभद्रमुनिः, अवतीर्णः-उत्पन्नः, इति पश्य-विलोकय ॥ ११५ ॥
कल्याणि ! तव कल्याण-वर्णिकां वर्णयन्तु के । यद्भः पुरुषकोटीरः, पार्थिवार्थितसङ्गमः ॥ ११६ ॥
'कल्याणि' हे मङ्गलमयि भद्रे ! मुकुटपक्षे-हे सुवर्णदे पृथ्वि ! तव कल्याणवर्णिकां-मङ्गलवर्णनम् । मुकुटपक्षेसुवर्णवणिकाम् । 'के' बुधाः । 'निर्णयन्तु' निश्चिन्वन्तु ? 'यद्भः' यज्जातः पुत्रः, यस्याः भवति जायते यद्भः शालिः । सुवर्णपक्षे-मुकुटः । 'पुरुषकोटीर:' पुरुषेषु कोटीर:-मुकुटसमः । 'पार्थिवार्थितसङ्गमः' पार्थिवेन श्रेणिकेन राज्ञा अर्थितः सङ्गमः यस्य सः शालिभद्रः । मुकुटोऽपि राजभिः धार्यते एव शिरसि ॥ ११६ ॥
सर्वदा नर्मदा भद्रा, करेणुस्त्वं यदङ्गजः । गम्भीरवेदी पुन्नागो, मोहदुर्गस्य भञ्जकः ॥ ११७ ॥
त्वं सर्वदा-सर्वकाले सर्वं दात्रीति वा सर्वदा । 'नर्मदा भद्रा' नर्म मधुरवचनं ददातीत्येवंशीला भद्रा । पक्षेनर्मदानद्यां भद्रा भद्रजातीया करेणुः-हस्तिनी । 'यदङ्गजः' यदीयपुत्रः । 'गम्भीरवेदी' गम्भीरतत्त्ववेत्ता । पक्षे-अवगणिताङ्कशः हस्ती। 'पुन्नागः' प्रधानपुरुषः । पक्षे-गजवरः । मोहदुर्गस्य भञ्जकः अस्ति ॥ ११७ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥३२६॥