________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वयं स्वामिन् ! दिव्याङ्गरागमालाभिः-दिव्यैः अङ्गरागैः-विलेपनैः मालाभिश्च, दुर्ललिता: दु:-अतिशयेन ललितं यासां ताः ॥ १०९ ॥
देवीभूयमिव प्राप्ताः, किं तेनाविरता वयम् । अनलम्भूष्णवः कान्त ! तवानुमरणेऽपि हा ॥ ११० ॥
वयं देवीभूयमिव-देवीत्वमिव, प्राप्ताः किं तेन वयं अविरता:-अविरतिमत्यः ? देवा: खलु विरतिग्रहणे असमर्थाः । हा ! तव अनुमरणेऽपि मृत्योः पश्चादपि, कान्त-हे नाथ ! अनलम्भूष्णवः-विरतिग्रहणं प्रति अशक्ताः ॥ ११० ॥
तदन्त्यां प्रार्थनां नाथ ! नाथेमहि महीयसीम् । निजं वागमृतं हन्त, हन्तकारः प्रदीयताम् ॥ १११ ॥
तत्-तस्मात् नाथ ! अन्त्यां-चरस महीयसी-महत्तरां-प्रार्थना-नाथेमहि-याचामहे । हतः करुणास्पदस्थितिदर्शकमव्ययम्। निजं वागमृतं-वचनामृतं, हन्तकारः, सिद्धान्नपक्वान्नफलादीनां प्रथममतिथि-ब्राह्मणादीनां दानं 'हन्तकार:' कथ्यते, प्रदीयतां-अर्प्यताम् ॥ १११ ॥
एवं प्रलपिता वीक्ष्य, वधूसङ्घघट्टिता । भद्रा मुमूर्च्छ मूर्छान्ते, मुक्तकण्ठं रुरोद सा ॥ ११२ ॥
एवं प्रलपिताः-प्रलापं कुर्वती: स्रुषाः, वीक्ष्य प्रेक्ष्य, वधूसङ्घघट्टिता-वधूसङ्घट्टेन घट्टिता-सङ्क्रान्तदुःखा, भद्रा मुमूर्च्छ-मूछौँ प्राप्ता, मूर्छान्ते-मूछविगमे सा मुक्तकण्ठं-उच्चस्वरेण रुरोद-रोदिति स्म ॥ ११२ ॥
श्रेणिकनरेन्द्रस्तां, विषादविषमूछिताम् । चञ्चद्वचनपीयूषतुषारैर्निरवापयत् ॥ ११३ ॥
विषादविषमूच्छितां-विषादविषेण मूच्छितां तां भद्रां श्रीश्रेणिकनरेन्द्रः चञ्चद्वचन पीयूष तुषारैः स्फुरद्वाणीसुधातुहिनैः, निरवापयत्-निर्वाणं शान्ति प्रापिता ।। ११३ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३२५ ॥