SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् FRERERY एषाऽपकीर्तिरस्माकमायुगान्तं विजृम्भिता । यत्प्रियः प्राङ्गणस्थोऽपि न दृशाऽपि हि पस्पृशे ।। १०५ ।। अस्माकं एषा अपकीर्तिः आयुगान्तं युगान्तं यावत्, विजृम्भिता - प्रकाशिता, यत् प्राङ्गणस्थः अपि प्रियः दृशाऽपि - नयनेनाऽपि हि न पस्पृशे स्पृष्टः । विलोकितोऽपि न इत्यर्थः ॥ १०५ ॥ पुनरेवैष्यति प्रेयान्, प्रीत्याऽस्माभिः प्रणंस्यते । सोऽन्यसामान्यया हाऽस्मान् दृशा सम्भावयिष्यते ।। १०६ ।। एवमाशावशान्नाथ ! नीता द्वादशवत्सरी । अनेनानशनेनाशु ही ! विलीना मनोरथाः ॥ १०७ ॥ पुनः एव प्रेयान्पतिः एष्यति - आयास्यति । अस्माभिः प्रीत्या प्रणंस्यते - पलायिष्यते । सः पतिः अन्यसामान्ययाअन्येषु अपि सामान्यया साधारणया दृशा नयनेन अस्मान् सम्भावयिष्यते विलोकयिष्यति ॥ १०६ ॥ एवं आशावशात् नाथ ! अस्माभिः द्वादशवत्सरी- द्वादशाना वत्सराणां वर्षाणां समाहारः, नीता - गमिता । किन्तु अनेन अनशनेन, ही खेदे, आशु - क्षिप्रं मनोरथाः विलीनाः प्रणष्टाः ॥ १०७ ॥ प्राणनाथ ! प्रसादात्ते, प्रिया पृथ्वीपतेरपि । तदाऽस्मानभ्यनीनन्दत्, वणिक्कुलभवा अपि ।। १०८ ॥ प्राणनाथ ! ते तव प्रसादात् कृपातः, तदा रत्नकम्बलग्रहणसमये पृथ्वीपतेरपि श्रेणिकनृपस्याऽपि प्रिया - चेल्लणा, वणिक्कुलभवाः अपि-वणिक्कुले भवा: - जाताः अपि अस्मान् अभ्यनीनन्दत् - अभिनन्दितवती ॥ १०८ ॥ त्वत्करस्पर्शपुण्येन, दिव्याहारेण लालिताः । दिव्याङ्गगरागमालाभिः, स्वामिन् दुर्ललिता वयम् ॥ १०९ ॥ त्वत्करस्पर्शपुण्येन-त्वदीयहस्तस्पर्शेन पुण्येन पवित्रेण, दिव्याहारेण - दिव्येन आहारेण, लालिताः- पालिता k32 सप्तमः प्रक्रमः ॥ ३२४ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy