________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
परं प्राणेश ! निःसत्त्वाः, किं बूमो विदुषिब्रुवाः । प्रेमहेमतुलाकाले, व्यञ्जिता गुञ्जया समाः ॥ १०१॥
परं-किन्तु प्राणेश ! विदुषिबुवाः आत्मानं विदुषर्षी ब्रुवन्ते इत्येवंशीला: मिथ्याविदुष्यः । निःसत्त्वाः-सत्त्वहीनाः वयं किं ब्रूमः ? यतः प्रेमहेमतुलाकाले-स्नेहसुवर्णतुलनासमये दीक्षाऽवसरे वयं गुञ्जया-कृष्णलया रक्तिकया समाःतुल्या: व्यञ्जिताः-प्रकटिताः ॥ १०१ ॥
अपि कल्याणरूपास्ते, नाथ ! सेवाच्युता वयम् । भवकूपं पतिष्यामस्त्वदलङ्कृतयो यथा ॥ १०२॥
नाथ ! ते-तव कल्याणरूपा:-मङ्गलरूपा:- । अलङ्कारपक्षे-सुवर्णरूपाः । सेवाच्युता:-सेवात: च्युताः-भ्रष्टाः । वयं भवकूपं-संसारान्धुम् । पक्षे-कूपम् । पतिष्यामः । यथा त्वदलङ्कृतयः-तव अलङ्काराः कूपे पतन्ति स्म तथा ॥ १०२॥
एकवृन्तादिवोत्खाताः, गोभद्रस्य वधूटिकाः । लोकोक्तिरिति सत्यैवा-स्माकं निःसत्त्वतागुणैः ॥ १०३ ॥
गोभद्रस्य वधूटिका:-पुत्रवध्वः एकवृन्तादिव-एकपुष्पबन्धनादिव उत्खाता:-उन्मूल्य आनीताः इति लोकोक्तिः अस्माकं निःसत्त्वतागुणैः सत्या एव अस्ति ॥ १०३ ।।
एवं संवित्तिसम्पन्ना, निःस्नेहा निस्त्रपागुणाः । इयन्त्यो हन्त निःसत्त्वाः , कुतो दैवेन सञ्चिताः ॥ १०४ ॥
एवं संवित्तिसम्पन्ना:-बुद्धियुताः निःस्ननेहाः स्नेहरहिताः निस्त्रपागुणा:-लज्जागुण रहिताः । इयन्त्यः निःसत्त्वाः दैवेन कुत: हन्त ! सञ्चिताः-एकत्रीकृता:? | १०४ ॥
828282828282828282828282828282828282
॥३२३॥