________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
दयितानां परिदेवनम्शालेः शिलापरीरम्भारम्भकेलि विलोक्य ताः । दधिरे विधुरास्तस्य, दयिताः परिदेवनम् ॥ ९७ ॥
शाले: मुनेः शिलापरीम्भाऽऽरम्भकेलि-गिरिशिलाऽऽलिङ्गनोपक्रमक्रीडां विलोक्य विधुराः व्याकुला: ताः तस्य शाले. दयिता: शालिप्रियाः परिदेवनं-विलापं दधिरे-चक्रुः ॥ ९७ ॥
हा प्राणवल्लभ प्रौढपुण्यैरपि सुदुर्लभ ! । हा रूपविजितानङ्ग ! हहा जीवितजीवितम् ॥ ९८ ॥
हा प्राणवल्लभ ! प्रौढपुण्यैरपि-प्रकृष्ठपुण्यकर्मभिरपि सुदुर्लभ ! रूपविजितानङ्ग-रूपेण विजित: अनङ्गः काम: येन तत्सम्बोधने । हहा ! जीवितजीवितं-जीवितस्यापि जीवितम् ! ॥ ९८ ॥
गोभद्रस्य कुलेऽस्माकं, सुकृतस्त्वमवातरः । जीमूतवाहनस्येव, गेहे कल्पद्रुमोऽर्थिनाम् ॥ ९९ ॥
अस्माकं सुकृतैः पुण्यैः त्वं गोभद्रस्य कुले अवातर:-अवतीर्णवान् । क: इव ? अर्थिनां-याचकानां पुण्यैरिव । जीमूतवाहनस्य मेघवाहनस्य-इन्द्रस्य, इन्द्रो हि मेघानाविश्य वर्षतीति कविसमयः । 'गेहे' गृहे स्वर्गे । 'कल्पद्रुमः इव' सुरतरुरिव ॥ ९९ ॥
अन्यथा क्व वयं नाथ ! मर्त्यलोकैककीटिकाः । भोगभङ्गी क्व सा दिव्याऽस्माकं स्वप्नेऽपि दुर्लभा ॥१०॥
नाथ हे स्वामिन् ! अन्यथा मर्त्यलोकैककीटिका:-मर्त्यलोके एककीटिकारूपाः वयं क्व? अस्माकं स्वप्नेऽपि दुर्लभा सा भोगभङ्गी-दिव्यविलासविच्छित्तिः क्व ? ॥ १० ॥
ARRARAUAYA8A82828282828282888
॥३२२॥