________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
आदेशकारिणी तस्याः, केवलं प्रातिवेश्मिकी । अभिज्ञानेन केनाहं, प्रार्थये लाभमद्भुतम् ॥ ९३ ॥
तस्या:-धन्यायाः आदेशकारिणी केवलं प्रतिवेश्मिकी अहं केन अभिज्ञानेन चिह्न अद्भुतं लाभं-धर्मलाभं प्रार्थये वाञ्छे ? दधिदानेन धन्या धर्मलाभ प्राप्ता किन्तु अहं केन अभिज्ञानेन धर्मलाभं प्रार्थये ? मया न किमपि दध्यादिकं दत्तमिति भावः ॥ ९३ ॥
तथापि समतासिन्धो ! समसज्जनदुर्जन ! । वासीचन्दनकल्पस्त्व-मिति मामनुकम्पय ॥ ९४ ॥
तथापि समतासिन्धो समतारससमुद्र ! समसज्जनदुर्जन सज्जनदुर्जनेषु सम-समानचित्त ! हे मुने ! त्वं वासीचन्दनकल्पः वास्या छेदकेषु चन्दनेन च लेपकेषु कल्प:-तुल्यमनोवृत्तिः असि, इति मां अनुकम्पय-मयि दयां कुरु ॥ ९५ ॥
हीनाया दीननेत्राया, देहि प्रत्युत्तरं मम । निजाम्बिकां हहा वत्स ! सम्भावय दृशापि माम् ॥ ९५ ॥
दीननेत्रायाः हीनाया: मम प्रत्युत्तरं देहि । हहा ! वत्स ! निजाम्बिकां मां दृशाऽपि-नयनेनाऽपि सम्भावयविलोकय ॥ ९५ ॥
एवं विविधभङ्गीभिर्भद्रा प्ररुदिता सती । रोदसी रोदयामास, मृगपक्षिगणाकुलाम् ॥ ९६ ॥
एवं विविधभङ्गीभिः, विविधाभि: भङ्गीभिः प्रकारैः । 'प्ररुदिता' प्रकर्षेण रुदिता सती भद्रा । 'मृगपक्षिगणाकुलं' पशुपक्षिगणैः आकुलां-सङ्कीर्णाम् । 'रोदसी' द्यावापृथिव्यौ । 'रोदयामास' रोदयति स्म ॥ ९६ ॥
82828282828282828282828282828282888
॥३२१॥