________________
पक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
अहं जीवन्मृता तात ! गृहकर्मणि कर्मठा । वत्सला न निजोत्सङ्ग-लालितेऽपि हहा त्वयि ॥ ८८ ॥
तात-हे वत्स ! अहं जीवन्मृता-जीवन्ती सती अपि मृता इव । गृहकर्मणि कर्मठा-परायणा अस्मि । हहा ! निजोत्सङ्गलालितेऽपि त्वयि-स्वीयाङ्के लालितेऽपि त्वयि न वत्सला अभवम् ॥ ८८ ॥
धन्या नान्यास्ति धन्याया, या जन्मान्तरनन्दनम् । ऋजुरज्ञा मुनि स्नेहात्, प्रस्नुता प्रत्यलाभयत् ॥ ८९ ॥
'धन्यायाः' मथितहारिकाया: । 'अन्या' परा । 'धन्या' पुण्यशालिनी नास्ति या जन्मान्तरनन्दनं पूर्वभवपुत्रं मुनि शालि ऋजुः-भद्रा अज्ञाना स्नेहात् प्रस्नुता-प्रसुता प्रत्यलाभयत्-प्रतिलम्भयति स्म ॥ ८९ ॥
अभद्राऽन्या न भद्राया, वित्ते लोकोत्तरे यया । पुत्रे सर्वोत्तमे पात्रे, नो ददे दानशम्बलम् ॥ ९० ॥
भद्रायाः मत्तः अन्या अभद्रा-अमङ्गला नास्ति, यया वित्ते-विख्याते लोकोत्तरे सर्वोत्तमे पात्रे पुत्रे दानशम्बलं नो ददे-न दत्तम् ॥ ९० ॥
साहाय्यादथवा यस्याः, पुत्र ! ते सम्पदः शुभाः । त्वयाऽपि हेलया तस्यै, पुण्यलाभः प्रकल्पितः ॥ ९१॥
अथवा हे पुत्र ! यस्या:-धन्याया: साहाय्यात् ते-तव शुभाः सम्पदः भविष्यन्ति, अत: त्वयाऽपि तस्यै हेलयालीलया पुण्यलाभः धर्मलाभ: प्रकल्पितः-प्रदत्तः ॥ ९१ ।।
प्रथमं पायसं सूनु-रन्यून भोजितस्तया । परलोकं प्रतिष्ठासोः, कृतं च दधिमङ्गलम् ॥ ९२ ॥
तया-धन्यया प्रथम-सङ्गमभवे अन्यूनं सम्पूर्ण पायसं-क्षीरं त्वं सूनुः भोजित: परलोकं प्रतिष्ठासो:-भवान्तरं प्रस्थातुमिच्छोः तव अधुना दधिमङ्गलं-दना मङ्गलं कृतम् ॥ ९२ ॥
ARRARAUAYA8A82828282828282888
॥३२०॥