________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'जगतीमान्यसौजन्य' जगत्यां मान्यं सौजन्यं यस्य तत्सम्बोधने । 'तप:श्रीधन्य' तप:श्रिया धन्य सुकृतिन् ! । धन्य मुने ! त्वमेव मम पुत्रस्य संयम सहकृत्वा-सहकारी । सहराजभ्या ।५।१।१६७।। इति क्वनिप् प्रत्ययेन 'सहकृत्वन्' शब्दः । असि ॥ ८३ ॥
सुतादपि हि जामाता, प्रियः स्त्रीणां मया तु हा ! । न दानं न च संमानं, तुभ्यं नाप्युत्तरं ददे ।। ८४ ॥
सुतादपि स्त्रीणां हि जामाता प्रियः भवति । यदुक्तम्-इत्थीण ए त्रण वल्लहां, कलह-कज्जल-सिन्दूर । ए पुण अतिहि वल्लहा, दूध-जमाई-तूर ॥ तु-किन्तु मया हा ! तुभ्यं-गृहागताय न दानं न च संमानं नापि उत्तरं ददे दत्तम् ।। ८४ ॥
शालिभद्रस्वसा मन्ये, सुभद्रा न ममाङ्गजा । यया पक्षत्रयी रत्न-त्रयीव विमलीकृता ॥ ८५ ॥
'मन्ये' अहं चिन्तयामि । सुभद्रा शालिभद्रस्वसा, किन्तु न मम अङ्गजा-न मम पुत्री । यया रत्नत्रयीव-ज्ञानादित्रयीव पक्षत्रयी-मातुः पितुः पत्युश्च पक्षत्रयम् । विमलीकृता-धवलीकृता । ८५ ॥
आत्मानमित्युपालभ्य, सर्वपर्वसु वञ्चितम् । प्रशशंस भृशं शाले-मातरं पूर्वजन्मनः ॥ ८६ ॥
इति सर्वपर्वसु-दीक्षा-भिक्षादानादिसर्वप्रसङ्गेषु । 'वञ्चितं' विप्रतारितम् । आत्मानं उपालभ्य दोषपात्रीकृत्य । शाले: पूर्वजन्मनः मातरं धन्यां भृशं प्रशशंस-प्रशंसति स्म ॥ ८६ ॥
निर्वीराऽपि दरिद्राऽपि, चिरायुरपि सा वरम् । दुग्धधौतैः हृदो नेत्रैः, पुत्र ! त्वं लक्षितो यया ॥ ८७ ॥
सा धन्या निर्वीराऽपि-पतिपुत्र-रहिताऽपि । 'निर्वीरा निष्पतिसुता' इति हैम्याम् । दरिद्राऽपि चिरायुरपि वरं श्रेष्ठा । यया दुग्धधौतैः स्तनजातेन दुग्धेन धौतैः । 'हृदः' हृदयस्य अन्तःकरणस्य । नेत्रैः लक्षितः त्वं अभिज्ञातः ॥ ८७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥३१९॥